________________
सूर्यइतिप्रकाशिका टीका सू० १५ प्रथमप्राभूते चतुर्थं प्राभृतप्राभृतम्
९३
छाया - तावत् कियन्तौ एतौ द्वौ सूर्यो अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः, आख्याती इति वदेत् । तत्र खल इमाः पट्प्रतिपत्तयः प्रज्ञप्ता, तत्र एके एवमाहुः - तावत् एकं योजनसहस्रमेकं च त्रयस्त्रिंशद्योजनशतम् अन्योऽन्यस्यान्तरं कृत्वा सूर्यो चारं चरतः आख्याती इति वदेत् एके एवमाहुः १, एके पुनः एवमाहुः तौ एकं योजनसहस्त्रमेकं च चतुस्त्रिंशद्योजनशतम् अन्योऽन्यस्यान्तरं कृत्वा सूर्यो चारं चरतः' आख्यातौ इति वदेत् । एके एवमाहुः २, एके पुनः एवमाहुः तौ एकं योजनसहस्रमेकं च पञ्चत्रिंशद्योजनशतम् अन्योऽन्यस्यान्तरं कृत्वा सूर्यौ चारं चरतः आख्यातौ इति वदेत् । एके एवमाहुः ३ । एकमेकं समुद्रमन्योऽन्यस्यान्तरं कृत्वा सूर्यो चारं चरतः । एके पुनः एवमाहुः ४, तावद् द्वौ द्वीपौ द्वौ च समुद्रौ अन्योऽन्यस्यान्तरं कृत्वा सूर्यो चारं चरतः आख्यातौ इतिवदेत् । एके एवमाहुः ५ । एके पुनः एवमाहुः त्रीन् द्वीपान् त्रीन् समुद्रान् अन्योऽन्यस्यान्तरं कृत्वा सूर्यो चारं चरतः आख्यातौ इतिवदेत् । एके एवमाहुः ६ । वयं पुनः एवं वदामः - तावत् पञ्च पञ्चयोजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्यैकैकं मण्डलमन्योऽन्यस्यान्तरम् अभिवर्द्ध
वा नर्वेष्टन्तौ वा सूर्यो चारं चरतः । तत्र खलु को हेतुराख्यात इति वदेत् । तावदयं जम्बूद्वीपः सर्वद्वीपसमुद्राणां यावत् परिक्षेपेण परिणतः । तत्र यदा खलु एतौ द्वौ सूर्यौ सर्वाभ्यन्तरं मन्डलमुपसंक्रम्य चारं चरत स्तदा खलु नवनवति योजनसहस्राणि षट्चत्वारिंशयोजनशतानि अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः आख्यातौ इनिवदेत् । तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षः अष्टादशमुहूर्त्ती दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रि भवति । तौ fasarat सूर्यौ नवं संवत्सरमाददानौ प्रथमे अहोरात्रे अभ्यन्तरानन्तरं मण्डलम् उपसंक्रम्य चारं चरतः । ततो यदा खलु एतौ द्वौ सूर्यौ अभ्यन्तरानन्तरं मण्डलम् - उपसंक्रम्य चारं चरतस्तदा खलु नवनवति योजनसहस्राणि षट् च पञ्चचत्वारिंशद् योजनशतानि पञ्चविंशतं च एकषष्टिभागान् योजनस्य अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः आख्यातौ इतिवदेत् । तदा खलु अष्टादशमुहूर्ती दिवसो भवति द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यामूनः, द्वादशमुहूर्त्ता रात्रि भवति द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्यामधिका । ततो निष्क्रामन्तौ सूर्यो द्वितीये अहो - रात्रे अभ्यन्तरानन्तरं तृतीय मण्डलमुपसंक्रम्य चारं चरत स्तदा खलु नवनवति योजनसहस्राणि षट् च एकपञ्चाशत् योजनशतानि नवचैकपष्टिभागान् योजनस्य अन्योऽन्यस्यान्तर' कृत्वा चारं चरतः, आख्यातौ इति वदेत् । तदा खलु अष्टादशमुहूर्ती दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तेरूनः । द्वादशमुहर्त्ता रात्रि भवति चतुर्भिरेकपष्टिभागमुहत्तैरधिका । एवं खलु एतेनोपायेन निष्क्रामन्तौ संक्रामन्तौ पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अन्योऽन्यस्यान्तरमभिवर्द्धयन्तौ अभिवर्द्धयन्तौ सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरतः । तदा खल एकं योजनसहरू षट्षष्टियोजनशतानि अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः । तत्र खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रत्रि भवति, जघन्यो द्वादशमुहूर्त्ती दिवसो भवति । एष खलु प्रथमः षण्मासः, एष खलु प्रथमस्य
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧