SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६६ जीवाभिगमसूत्रे रक्ता रक्तवती सलिला तत्रैव उपागच्छन्ति, तत्रैवोपागत्य सरितोदकं गृह्णन्ति गृही. त्वोभयतटमृत्तिकां गृह्णन्ति गृहीत्वा यत्रैव चुल्लहिमवत्-शिखरि वर्षधरपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य सर्वतुवरांश्च सर्व पुष्पाणि च सर्वान् गन्धान च सर्वमाल्यानि च सौषधीः सिद्धार्थान् गृह्णन्ति सौषधिसिद्धार्थान् गृहीत्वा यत्रैव पद्मदपुण्डरीकहूदास्तत्रैवोपागच्छन्ति तत्रैवोपागत्य ह्रदोदकं गृह्णन्ति गृहीत्वा यानि तत्रोत्पलानि यावत् शतसहस्रपत्राणि तानि तानि गृह्णन्ति गृहीत्वा यत्रैव हैमवत हैरण्यवतानि वर्षाणि यत्रैव रोहित रोहितांशसुवर्णकूलरूप्यकूला स्तत्रैवोपागच्छन्ति उपागत्य सलिलोदकं गृह्णन्ति सलिलोदकं गृहीत्वा उभयतटमृत्तिका गृह्णन्ति, गृहीत्वा यत्रैव शब्दापाती माल्यवन्तप्रयागाः वृत्तवैताद्यपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य सर्वर्तुवरान् यावत्सवौषधिसिद्धार्थाश्च गृह्णन्ति सिद्धार्थाश्च गृहीत्वा यत्रैव महाहिमवत् रूप्यवर्षधर पर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य सर्वपुष्पाणि तदेव । यत्रैव, महापद्मदमहापुण्डरीकहूदास्तत्रैव उपागच्छन्ति, तत्रैवोपागत्य, यानि तत्रोत्पलानि तदेव, यत्रैव हरिवर्षको रम्यकवर्ष इति यत्रैव हरकान्त हरिकान्त नरकान्त नारीकान्ताः सलिलास्तत्रैवोपागच्छन्ति तत्रैवोपागत्यसलिलोदकं गृह्णन्ति सलिलोदकं गृहीखा यत्रैव विकटावती गन्धापातिवृत्त-वैताद यपर्वतास्तत्रैवोपागच्छन्ति सर्वपुष्पाणि च तदेव, यत्रैव निषधनीलवद् पर्षधरपर्वतास्तत्रैवोपागच्छन्ति, तत्रैवोपागत्य, सर्वर्तुवरांश्च तथैव तिगिच्छ हूदकेसरिहृदास्तत्रैवोपागच्छन्ति उपागत्य यानि तत्रोत्पलानि तदेव, तत्रैव पूर्वविदेहापरविदेहवर्षाणि यत्रैव सीताशीतोदका महानद्यो यथा नद्यः, यत्रैव सर्वचक्रवर्तिविजयाः यत्रैव सर्व मागधवरदाम प्रभासाख्यानि तीर्थानि यथैव तथव, यत्रव सर्ववक्षस्कारपर्वताः सर्वर्तुवरांश्च यत्रैव सर्वान्तरनद्यः, सलिलोदकं गृह्णन्ति गृहीत्वा तदेव यत्रैव मन्दरः पर्वतः यत्रैव भद्रशालवनं तत्रैवोपागच्छन्ति, सर्वर्तुवरांश्च यावत्सवौंषधिसिद्धार्थान् गृह्णन्ति, गृहीत्वा यत्रैव नन्दनवनं तत्रैवोपागच्छन्ति, उपागत्य सर्वर्तुवरान् यावत्सवौषधि सिद्धार्थी श्च सरसं च गोशीर्षचन्दनं गृह्णन्ति गृहीत्वा यत्रैव सौमनसवनं तत्रैवोपागच्छन्ति तत्रैवोपागत्य सर्वर्तुवरांश्च यावत् सौंषधि सिद्धार्थांश्च सरसगोशीर्षचन्दनं दिव्यश्च सुमनोदाम गृह्णन्ति, गृहीत्वा यत्रैव पण्डकवनं तत्रैव समुपागच्छन्ति तत्रैव समुपागत्य सर्वतुवरान् यावत्सवौषधि सिद्धार्थान् सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम दर्दर मलयसुगन्धिक च गृह्णन्ति, गृहीत्वैकत्र मिलन्ति एकत्र मिलित्वा जम्बूद्वीपस्य पूर्वेण द्वारेण निर्गच्छन्ति पूर्वेण द्वारेण निर्गत्य तयोत्कृष्टया यावद् दिव्यया देवगत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यमध्येन व्यतिव्रजन् यत्रैव विजया राजधानी तत्रैवोपागच्छति, तत्रैवोपागत्य विजयां राजधानीम् अनुप्रदक्षिणीकुर्वन् यत्रैवाऽभि જીવાભિગમસૂત્રા
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy