SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ६५ विजयदेवाभिषेकवर्णनम् २६५ पूर्वेण तोरणेनाऽनुप्रविशति अनुप्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति प्रत्यवरुह्य हुदमवगाहते । अवगाह्य जलावगाहनं करोति-जलावगाहनं कृत्वा जलमज्जनं करोति जलमज्जनं कृखा जलक्रीडां करोति जलक्रीडां कृत्वा चान्तश्चोक्षः परमशुचिभूतो हूदात् प्रत्युत्तरति प्रत्युत्तीरय योगाऽभिषेक सभा तौकोपागच्छति तत्रैवोपागत्य-अभिषेकसभांप्रदक्षिणी कुर्वन पूर्वेण द्वारेणाऽनुप्रविशति अनुप्रविश्य, यौव स्वकीयं सिंहासनं तत्रैवोपागच्छति तौवोपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः । ततः खलु तस्य विजयस्य देवस्य सामानिकपर्षदुपपन्नका देवाः अभियोगिकान् देवान् शब्दायन्ते शब्दयित्वा-एरमवादिषुः, क्षिप्रमेव भोः ? देवाऽनुप्रिया ? विजयस्य देवस्य महार्थ महाघ महाई विपुलम् इन्द्राभिषेकमुपस्थापयत । ततस्ते आभियोगिका देवाः सामानिकपर्पदुपपन्नकैः एवमुक्ता हृष्टतुष्टायावद् हृदयाः करतल परिगृहीतं शिरसाऽऽवतै कृत्वाऽञ्जलिं मस्तके -एवं देवाः-तथाऽस्तु, आज्ञया विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्योत्तरपूर्व दिग्विभागमवक्रामन्ति, अवक्रम्य वैक्रियसमुद्घातेन समवघ्नन्ति-समवहत्य संख्येयानि योजनानि दण्डं निःसृजन्ति, तद्यथा-रत्नानां यावद्रिष्टानाम् यथा बादरान् पुद्गलान् परिशातयन्ति परिशात्य यथा सूक्ष्मान् पुद्गलान् पर्याददते, पर्यादाय द्वितीयेनाऽपि वैक्रियसमुद्घातेन समवघ्नन्ति समवहत्य, अष्टसहस्रं सौवर्णिकानां कलशानाम्, अष्टसहस्त्रं, रूप्यमयाणां कलशानाम् अष्टसहस्रं मणिमयानाम् अष्टसहस्रं सुवर्णरूप्यमयानाम अष्टसहस्रं सुवर्णमणिमयानाम् . अष्टसहस्रं रूप्यमणिमयानाम्, अष्टसहस्रं सुवर्ण रूप्यमयानाम्, अष्टसहस्रं भौमेयानाम्, अष्टसहस्रं भृगारकाणाम्, एवमादर्शकाना स्थालानां पात्रीणां-सुप्रतिष्ठकानां चित्राणां रत्नकरण्डकानां पुष्पचंगेरीणां यावत् लोमहस्तचंगेरीणां पुष्पपटलकानां यावल्लोमहस्तपटलकानाम् अष्टशतं सिंहासनानां छत्राणां चामराणाम् अवपट्टकानाम् वर्तकानां तपः सिप्राणाम् क्षौरकाणां पीणकानां तैलसमुद्गकानामष्टशतं धूपकडुच्छुकानां विकुर्वन्ति, तान् स्वाभाविकान् विकुर्विताश्च कलशांश्च यावद्धृपकडुच्छुकांश्च गृह्णन्ति गृहीत्वा विजयातो राजधानीतः प्रतिनिष्क्रामन्ति प्रतिनिष्क्रम्य तया उत्कृष्टया यावदुद्धृतया दिव्यया देवगत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्ये मध्ये व्यतिव्रजन यौव क्षीरोद. समुद्रस्तत्रैवोपागच्छंति उपागत्य क्षीरोदकं गृहीत्वा यानि तत्रोत्पलानि यावच्छत सहस्रपत्राणि तानि गृह्णन्ति गृहीत्वा यत्रैव पुष्करोदः समुद्रस्तत्रैवोपागच्छन्ति तत्रैवोपागत्य पुष्करोदकं गृह्णन्ति गृहीत्वा पुष्करोदकं यानि तत्रोत्पलानि यावत् शवसहस्रपत्राणि तानि गृह्णन्ति तानि गृहीत्वा यत्रैव समयक्षेत्र यत्रैब भरतैरावताचि वर्षाणि यत्रैव मागधवरदामप्रभासानि तीर्थानि तत्रैवोपा गच्छन्ति तौवोपागत्य तीर्थोदकं गृह्णन्ति, तीर्थोदकं गृहीत्वा तीर्थमृत्तिकां गृह्णन्ति, गृहीत्वा यत्रैव गङ्गासिन्धु जी० ३४ જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy