SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६४ जीवाभिगमसूत्रे माणा २ जेणेव अभिसे यसभा जेणेव विजए देवे तेणेव उवागच्छंति उवागच्छित्ता करतलपरिग्गहीतं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाति विजयस्स देवस्स तं महत्थं महग्धं महरिहं विपुलं अभिसे यं उबटुवेति ॥सू० ६५॥ छाया-'तस्मिन् काले तस्मिन्-समये विजयो देवो विजयाया राजधान्या उपपातसभायां देवशयनीये देवदृष्यान्तरितेऽङ्गुलस्याऽसंख्येयभागमात्रयाऽवगाहनया विजयदेवतया समुपन्नः ततः खलु स विज यदेवोऽधुनोपपन्नमात्रएव सन् पञ्चविधया पर्याप्त्या पर्याप्तिभावं गच्छति तद्यथा-आहारपर्याप्त्या १ शरीरपर्याप्त्या २ इन्द्रियपर्याप्त्या ३ आनत-प्राणतपर्याप्त्या ४ भाषामनः पर्याप्त्या ५ ततः खलु विजयस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तिभावं गतस्याऽयमेतद्रूप आध्यात्मिकश्चिन्तितः प्राथितो मनोगतः सङ्कल्पः समुदपद्यत किं में पूर्व श्रेयः किं मे पश्चाश्रेयः किं में पूर्व करणीयं किं मे पश्चात्करणीयम् कि मे पूर्व वा, पश्चाद्वा हिताय-सुखाय-क्षेमाय-निःश्रेयसायाऽनुगामिकतायै भविष्यतीति कृत्वाएवं संप्रेक्षते ॥ ततः खलु विजयस्य देवस्य सामानिकपर्षदुपपन्नकाश्च देवा विजयस्य देवस्य इममेतद्रूपमाध्यात्मिकं चिन्तितं-प्रार्थितं-मनोगतं-संकल्पं समुत्पन्न ज्ञात्वा यत्रैव स विजयो देव स्तत्रैवोपगच्छन्ति तत्रैवोपगत्य विजयं देवं करतलपरिगृहीतं शिरसावर्त मस्तकेऽञ्जलिङ्कृत्वा जयेन-विजयेन वर्धापयन्ति । जयेनविजयेन वर्धापयित्वा-एवमवादिषुः एवं खलु देवानुप्रियाणां विजयाया राजधान्याः सिद्धायतनेऽष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां संनिक्षिप्तं तिष्ठति। सभायाश्च सुधर्मायाः माणवके चैत्यस्तम्भे वज्रमयेषु गोलवृत्तसमुद्केषु बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि खलु-देवानुप्रियाणामन्येषां च बहूनां विजयाराजधानी वास्तव्यानां देवानां-देवीनां चाऽर्चनीयानि वन्दनीयानि पूजनीयानि सत्कारणीयानि सम्माननीयानि कल्याणं-मङ्गलं-दैवतं-चैत्यं पर्युपासनीयानि एतत्खलु देवानुप्रियाणां पूर्वमपिश्रेयः एतत्खलु देवाऽनुप्रियाणां पश्चादपि श्रेयः एतत्खलु देवानुप्रियणां पूर्व करणीयं पश्चात् करणीयम् एतत्खलु देवानुप्रियाणां पूर्ववा-पश्चाद्वा यावद् आनुगामिकतायै भविष्यतीति कृत्वा महता महता-जयशब्दं प्रयुञ्जन्ति । ततः खलु स विजयोदेव स्तेषां सामानिकानां पर्षद् उपपन्नकानां देवानामन्तिके-एवमर्थ श्रुत्वा निशम्य हृष्टतुष्टो यावत्-हृदयो देवशयनीयादभ्युत्तिष्ठते, अभ्युत्थाय दिव्यं देवदूष्ययुगलं परिधत्ते परिधाय देवशयनीयात्-प्रत्यवरोहति प्रत्यवरुह्योपपात समाया पूर्वेण द्वारेण निर्गच्छति । निर्गत्य येनैव [यत्रैव] हूदस्तत्रैवोपागच्छति उपागत्य इद मनुप्रदक्षिणं कुर्वन् જીવાભિગમસૂત્ર
SR No.006345
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1580
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy