________________
१०६०
जीवाभिगमसूत्रे सौधर्मेशानयोः खलु भदन्त ! कल्पयोः देवानां किं महती शरीररावगाहना प्रज्ञता ? गौतम ! द्विविधा शरीरावगाहना प्रज्ञप्ता तद्यथा - भवधारणीया चोत्तरवैक्रिया च तत्र खलु या सा भवधारणीया सा जघन्येनाऽङ्गुलस्याऽसंख्येयभागम् उत्कर्षतः सप्तरत्नयः, तत्र खलु - या सा उत्तरवैक्रिया सा जघन्यतोऽङ्गगुलस्य संख्येयभागम् उत्कर्षेण योजनशतसहस्रम् एवमेकैकाऽपसारणेन यावदनुतराणामेका रत्निः, ग्रैवेयकाऽनुत्तराणामेकं भवधारणीयं शरीरम् उत्तरखैक्रियं नास्ति । सौधर्मेशानयोः खलु देवानां शरीराणि किं संहननानि प्रज्ञप्तानि ? गौतम ! षण्णां संहननानाम् असंहननानि प्रज्ञप्तानि ? नैवाऽस्थि नैवशिरा नापि स्नायूंषि - नैव संहननानि, ये पुद्गला इष्टाः कान्ता यावत् ते तेषां संघाततया परिणमन्ति यावदनुत्तरोपपातिकाः । सौधर्मेशानयो देवानां शरीरकाणि किं संस्थितानि प्रज्ञप्तानि ? गौतम ! द्विविधानि शरीराणि - भवधारणीयानि च उत्तरवैक्रियाणि च तत्र खलु यानि तानि भवधारणीयानि तानि समचतुरस्र - संस्थानसंस्थितानि प्रज्ञप्तानि, तत्र खलु यानि तानि - उत्तरवैक्रियाणि तानि नानासंस्थानसंस्थितानि प्रज्ञप्तानि यावदच्युतः, अवैक्रियाणि ग्रैवेयकाऽनुत्तरराणि, भवधारणीयानि यानि समचतुरस्रसंस्थानसंस्थितानि, उत्तरवैक्रियं नास्ति । सौधर्मेशानयोर्देवाः कीदृशाः वर्णेन प्रज्ञप्ताः ? गौतम ! कनकत्वररक्ताभाः वर्णेन प्रज्ञप्ताः, सनत्कुमारमाहेन्द्रयोः खलु पद्मपक्ष्मगौराः वर्णेन प्रज्ञप्ताः । ब्रह्मलोके खलु भदन्त ! गौतम !.... मधुकवर्णाभाः वर्णेन प्रज्ञप्ताः एवं यावत् - ग्रैवेयकाः अनुतरोपपातिकाः परमशुक्ला : वर्णेन प्रज्ञप्ताः । सौधर्मेशानयोः खलु भदन्त ! कल्पयोर्देवानां शरीराणि कीदृशानि गन्धेन प्रज्ञप्तानि ? गौतम ! स यथा नामकः कोष्ठपुटानामिति वा तदेव सर्व यावद् मन आमतरकाण्येव गन्धेन प्रज्ञप्तानि, यावदनुत्तरोपपातिका । सौधर्मेशानयोर्देवानां शरीराणि कीदृशानि स्पर्शेन प्रज्ञतानि ? गौतम ! स्थिरमृदुक स्निग्ध सुकुमालछवि स्पर्शेन प्रज्ञप्तानि एवं यावदनुतरोपपातिका । सौधर्मेशान देवानां कीदृशाः पुद्गलाः उच्छ्वासतया परिणमन्ति ? गौतम ! ये पुद्गला इष्टाः कान्ता यावत् ते तेषामुच्छ्रवासतया परिणमन्ति यावदनुत्तरोपपातिका, एवम् आहारतयाऽपि यावदनुतरोपपातिका । सौधर्मेशानदेवानां कतिलेश्याः प्रज्ञप्ता, गौतम ! एका तेजोलेश्या प्रज्ञप्ता । सनत्कुमारमाहे - न्द्रयोरेका पद्मश्या, एवं - ब्रह्मलोकेऽपि पुमा, शेषेषु एका शुक्ललेश्या, अनुतरोपपातिकानामेका परमशुक्ललेश्या । सौधर्मेशानदेवाः किं सम्यग्दृष्टयोमिथ्यादृष्टयः - सम्यङ् मिथ्यादृष्टयः ? त्रयोऽपि यावदन्तिमग्रैवेयका देवाः योsपि मिध्यादृष्टयोऽपि सम्यङ्गमिथ्यादृष्टयोऽपि, अनुतरोपपातिकाः resent नो मिथ्यादृष्टयो नो सम्यरमिथ्यादृष्टयः । सौधर्मेशानकाः किं
જીવાભિગમસૂત્ર