________________
प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू.१२९ देवविमान पृथिव्याः बाहल्यादिकम् १०५९ तद्यथा - कृष्णानि नीलानि, लोहितानि, पीतानि, शुक्लानि, सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, नीलानि यावत् शुक्लानि । ब्रह्मलोकलान्तकचोरपि त्रिवर्णानि, लोहितानि यावत् शुक्लानि, महाशुकसहस्रारयोद्विवर्णानि, पीतानि च शुक्लानि च, आनतप्राणतारणाच्युतेषु शुक्लानि, ग्रैवेयकविमानानि शुक्लानि अनुतरोपपातिकविमानानि परमशुक्लानि वर्णेन प्रज्ञप्तानि । सौधर्मेशानयोः खलु भदन्त ! कल्पयो विमानानि कीदृशानि प्रभया प्रज्ञप्तानि ? गौतम ! नित्यालोकानि नित्योद्योतानि स्वयं प्रभाणि प्रज्ञप्तानि यावदनुतरोपपातिकविमानानि नित्यालोकानि नित्योद्योतानि - स्वयंप्रभाणि प्रज्ञप्तानि । सौधर्मेशानयोः खलु भदन्त ! कल्पयो विमानानि कीदृशानि गन्धेन प्रज्ञप्तानि ? गौतम ! तद्यथा नाम कोष्ठपुटमिति वा यावत् गन्धेन प्रज्ञप्तानि एवं यावत् - इतः इष्टतरकाणि चैव यावदनुतरविमानानि । सौधर्मेशानयोः खलु भदन्त कल्पयोविमानानि कीदृशानि स्पर्शेण प्रज्ञप्तानि, गौतम ! तद्यथा नाम- आदर्श इति वा, रुत इति वा, सर्वः स्पर्शो भणितव्यो यावदनुतरोपपातिकविमानानि । सौधर्मेशानयोः खलु भदन्त ! कल्पयो विमानानि किं महान्तानि प्रज्ञप्तानि गौतम ! अयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां स एव गमो यावत् षड्मासान् व्यतिव्रजेत् यावदस्त्येककान् विमानावासान नो व्यतिव्रजेत यावदनुतरोपपातिक विमानानि, अस्त्येककं विमानं व्यतिव्रजेत् अस्त्येककं विमानं नो व्यतिव्रजेत् । सौधर्मेशानयोः खलु भदन्त ! कल्पयो विमानानि किं मयानि प्रज्ञप्तानि ? गौतम ! सर्वरत्नमयानि प्रज्ञप्तानि तत्र खलु बहवो जीवाः पुद्गलाचाऽपक्रामन्ति व्युत्क्रामन्ति चीयन्ते उपचीयन्ते शाश्वतानि खलु तानि विमानानि द्रव्यरार्थतया यावत्स्पर्शपर्यायैरशाश्वतानि यावद - उतरोपपातिक विमानानि । सौधर्मेशानयोः खलु देवाः कुत- उत्पद्यन्ते, उपपातोनेतव्यो यथा व्युत्क्रान्तौ तिर्यगूमनुष्येषु पञ्चेन्द्रियेषु संमूच्छिमवर्जितेषु उत्पातो व्युत्क्रान्तिगमेन यावदनुतरोपपातिकजीवाः । सौधर्मेशानयोर्देवा एकसमयेन कियन्त उत्पद्यन्ते ? गौतम ! जघन्येन - एको वा - द्वौ वा त्रयो वा उत्कर्षेण संख्येया वाऽसंख्येया वा उत्पद्यन्ते, एवं यावत् सहस्रारः, आनतादि ग्रैवेयकाः अनुत्तराव एको वा - द्वौ वा त्रयो वा उत्कर्षेण संख्येया वा संख्येया वा उत्पद्यन्ते । हे भदन्त ! सौधर्मेशानयोः खलु देवाः समये २ अपहियमाणाः - २ कियता कालेना - Sपहृताः स्युः ? गौतम ! ते खल्व संख्येयाः समये - २ अपहियमाणाः असंख्येयाभिरुत्सर्पिणी - अपसर्पिणीभिः अपह्रियन्ते नैव खलु अपहृताः स्युः यावत्-सहस्रारः आनतादिकेषु चतुर्ष्वपि ग्रैवेयकेषु - अनुत्तरेषु च समये - २ यावत् कियत्कालेनाऽपहृताः स्युः ? गौतम ! ते खल्वसंख्येयाः समये - २ अपहियमाणाः पल्योपमस्याऽसंख्यात भागमात्रेणाऽपह्रियन्ते नैव खल्वपहृताः स्युः ।
જીવાભિગમસૂત્ર