SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे भागस्थिताक्षपाटकाद्यारभ्य प्रत्येकद्वारस्थिनद्वारचेटयादिव्यालरूपपर्यन्तानां पञ्चदशवस्तूनां सर्वा अपि पूजाविधयो बोध्याः (७९) ततः स दाक्षिणात्यस्तम्भपङ्किसमीपे समागच्छति । अत्रापि पूर्ववदेव स्तम्भानां शालभञ्जिकानां व्यालरूपाणां च प्रमार्जनादि धूपदानान्तं सर्वं करोति (७१) ततः स उत्तरीयमुखमण्डपे उत्तरीयमुखमण्डपस्य बहुमध्यदेशभागे च समागच्छति, तत्र स्थितानामक्षपाटकमणिपीठिकासिंहासनानां पूर्ववदेव धूपान्तं सर्वं करोति ८४ । ततः स पाश्चात्य द्वारे समागच्छति, तत्र द्वारवेटी शालभञ्जिका व्यालरूपाणां प्रमार्जनादि धूपदानान्तं समस्तं कृत्यं करोति ८७ । ततः स उत्तरीयद्वारस्थितायाः दाक्षिणात्यस्तम्भपक्तेः समीपे समागच्छति, तत्र स्तम्भशालभञ्जिकाव्यालरूपाणां प्रमार्जनादि धूपदानान्तं करोति ९० । ततः स सिद्धायतनस्य उत्तरीये द्वारे समागच्छति, तत्रापि द्वारचेटयादीनां प्रमार्जनादि धूपदानपर्यन्तं सर्वं करोति ९५ । ततः पौरस्त्ये मुखमण्डपे पौरस्त्यमुखमण्डपस्य बहुमध्यदेशभागे च समागच्छति, तत्राक्षपाटकमणिटीठिकासिंहासनानां प्रमार्जनादि धपदानान्तं सर्व तथैव करोति ९९ । ततः पौरस्त्यस्य मुखमण्डपस्य दाक्षिणात्ये द्वारे या पाश्चात्या स्तम्भपतिस्तत्र समागच्छति स्तम्भशालभञ्जिका व्यालरूपाणां पूर्ववत् प्रमार्जनादि धूपदानपर्यन्तं सर्व करोति १०२। तत उत्तरीये द्वारे समागच्छति, द्वारचेटयादीनां पूर्ववदेव धूपपर्यन्तं सर्व करोति (१०५) ततः पौरस्त्ये द्वारे समागच्छति पूर्ववदेव सर्वं करोति १०८ । ततः पौरस्त्ये प्रेक्षागृहमण्डपे समागच्छति, तत्राक्षपाटकमणिपीठिकासिंहासनानां पूर्ववत् सर्व करोति १११ । पौरस्त्यप्रेक्षागृहमण्डपस्य पश्चिमोत्तरपूर्वदक्षिणेषु द्वारेषु क्रमशो गच्छति, प्रत्येकस्मिन् द्वारे द्वारचेटी शालभञ्जिका व्यालरूपाणां त्रयाणां प्रमार्जनादि धूपदानान्तं सर्वं करोति (१२४) । पूर्ववदत्रापि स्तूपस्य मणीपीठिकानां चतसृणां जिनप्रतिमानां च, चैत्यवृक्षस्य महेन्द्रध्वजस्य नन्दापुष्करिण्या तोरण-त्रिसोपानप्रतिरूपकशालभञ्जिका-व्यालरूपाणां च प्रमार्जनादि धूपदानान्तं सर्वं करोति (१३९) एतत् : सूत्रमाश्रित्य दण्डिनो मूर्तिपूजां साधयन्ति तत्तेषां मोहविजम्भितम् प्रवचनमानभिज्ञत्वात् , तदाहि શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy