SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. ९३ सूर्याभदेवस्य कार्यक्रमवर्णनम वर्णनं पूर्ववद् बोध्यम् १५ । ततः स दाक्षिणात्य मुखमण्डपस्य दाक्षिणात्ये द्वारे समागच्छति, तत्रापि लोमहस्तेन द्वारचेटयादि प्रमार्जनादि धूपदानपर्यन्तं समस्तं कृत्यं पूर्ववत् करोति १८ । ततः स दाक्षिणात्यप्रेक्षागृहमण्डपबहुमध्यदेशभागस्थितस्य वज्रमयाक्षपाटकस्य १९ मणिपीठिकायाः २० सिंहासनस्य च २१ समीपे समागच्छति, तत्र स लोमहस्तकेन अक्षपाटकादीनि प्रमाय दिव्यजलधाराऽभ्युक्षणादि धूपदानातं समस्तं कृत्यं पूर्ववत् करोति । ततः स क्रमेण दाक्षिणात्यप्रेक्षागृहमण्डपस्य प्राश्चात्ये द्वारे २४, उत्तरीये द्वारे २७, पौरस्त्ये द्वारे ३०, दक्षिणे च द्वारे ३३, समागच्छति, प्रत्येकत्र प्रमार्जनादि धूपदानान्तं करोति (३४) ततः स दाक्षिणात्यचैत्यस्तूपसमीपे समागच्छति, तत्र स स्तूपस्य मणिपीठिकायाश्च प्रमार्जनं करोति, दिव्यजलधारयाऽभ्युक्षणादि धूपदानान्तं च करोति ३५ । ततः स क्रमेण पाश्चात्यमणिपीठिकायाः पाश्चात्य जिनप्रतिमायाः ३६, उत्तरीय मणिपीठिकाया उत्तरीयजिनप्रतिमायाः ३८, पौरस्त्य मणिपीठिकायाः पौरस्त्यजिनप्रतिमायाः ४०, दाक्षिणात्यमणिपीठिकाया दाक्षिणात्यजिनप्रतिमायाश्च ४२ समीपे समागच्छति । प्रत्येकश्च प्रमार्जनादि धृपदानान्तं करोति ४३ । ततः स दाक्षिणात्यचैत्यवृक्षसमीपे समागच्छति, प्रमार्जनादि धूपदानान्तं करोति ४४ । ततो महेन्द्रध्वजसमीपे समागच्छति, प्रमार्जनादि धूपदानान्तं करोति ४५ । ततो दाक्षिणात्य नन्दापुष्करिणी समीपे समागच्छति, तत्र लोमहस्तकेन तोरणान् ४६ त्रिसोपानप्रतिरूपकाणि ४७ शालभभिका व्यालरूपाणि च ४८ प्रमार्जयति, दिव्यजलधाराऽभ्युक्षणादि धूपान्तं च करोति ४९ ततः स सिद्धायतनम् अनुप्रदक्षिणी कुर्वन् उत्तरीयनन्दापुष्करिणीसमीपे समागच्छति, 'तं चेव' तदेवदक्षिणनन्दापुष्करिणीवदेवात्राऽपि धूपान्तं सर्वं करोति ५३ । ततः स उत्तरीयचैत्यवृक्षसमीपे समागच्छति पूर्ववदेव धूपान्तं कृत्य करोति ५४ । ततः स उत्तरीयचैस्यस्तूपसमीपे समागच्छति, पूर्ववदेव स्तूपस्य मणिपीठिकायाश्च प्रमाजनादि धूपदानान्तं कृत्यं करोति ५६ । ततोऽसौ क्रमेण पाश्चात्यमणिपीठिकायाः, ५७ पाश्चात्यजिनप्रतिमायाः ५८, उत्तरीयमणिपीठिकायाः, ५९ उत्तरीयजिनप्रतिमायाः ६० पौरस्त्यमणिपीठिकायाः ६१ पौरस्त्यजिनप्रतिमायाः ६२, दक्षिणमणिपीठिकायाः ६२ दक्षिणजिनप्रतिमायाश्च ६३ समीपे समागच्छति, पूर्ववदेव प्रत्येकत्र धूपान्तं समस्तं, कृत्यं करोति (६४) ततः स उत्तरीयप्रेक्षागृहमण्डपे समागच्छति । अत्र सर्वा वक्तव्यता दाक्षिणात्यप्रेक्षागृहमण्डपवत् बहुमध्यदेशभागपश्चिमोत्तरपूर्वदक्षिणद्वारक्रमेण बहुमध्यदेश શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy