SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ६५० राजप्रश्नीयसूत्रे टीका-'नमोऽत्थु णं' इत्यादि ।। 'नमोऽस्तु खलु अर्हद्भ्यो यावत्संप्राप्तेभ्यः यस्य व्याख्या पूर्व गता । इत्थं स सूर्याभो देवो वन्दते नमस्यति । कृतवन्दननमस्कारः स यत्र देवच्छन्दकाभिधानआसनविशेषा यत्र च सिद्धायतनस्य बहुमध्यप्रदेशभागस्तत्रोपागच्छति । तत्र स लोमहस्तकं गृहीत्वा तेन लोमहस्तकेन सिद्धायतनबहुमध्यदेशभाग प्रमार्जयति, दिव्यजलधारया तम् अभ्युक्षयति, सरसेन गोशीर्षचन्दनेन तत्र पञ्चाङ्गुलितलं मण्डलकम् आलिखति । ततः स तं सिद्धायतनबहुमध्यदेशभाग कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णन कुसुमेन मुक्तपुष्पपुजोपचारकलितं करोति, तत्र धूपं च ददाति । ततः स सिद्धायतनस्य दक्षिणद्वारे समागत्य लोमहस्तकं गृहीत्वा तेन द्वारचेटयौ= द्वारशाखे शालभञ्जिकाः व्यालरूपाणि-सर्परूपाणि च प्रमाज्यं दिव्यजलधारया अभ्युक्षयति, सरसगोशीर्षचन्दनेन चर्चकान्-अनुलेपनानि ददाति । तेषु च पुनः पुष्पारोहणं माल्यारोहणं यावत् आभरणारोहणं करोति । तथातानि द्वारचेव्यादीनि आसक्तावसक्तवृत्तालम्बितमाल्यदामकलापानि करोति यावद् धूपं च ददाति ५ । ततः स सूर्याभो देवो यत्रैव दाक्षिणात्ये द्वारे मुखमण्डपो, यत्रैव दाक्षिणात्यमुखमण्डपस्य बहुमध्यदेशभागः, तत्रैव उपागच्छति, उपागत्य लोमहस्तकं गृहीत्वा तेन दाक्षिणात्यमुखमण्डपबहुमध्यदेशभागं प्रमाज्यं दिव्यजलधारया तम् अभ्युक्षयति, सरसगोशीर्षचन्दनेन तत्र पश्चाङ्गुलितलं मण्डलकम् आलिखति, तथा-तं बहुमध्यदेशभागं कचग्रहगृहीतयावद् मुक्तपुष्पपुञोपचारकलितं करोति, धूपं ददाति ६ । ततः स सूर्याभदेवो दाक्षिणात्यमुखमण्डपस्य पाश्चात्ये द्वारे समुपागत्य लोमहस्तकमादाय तेन द्वारचेटथौ शालभधिकाः व्यालरूपाणि च प्रमायति, दिव्यजलधारया तानि अभ्युक्षयति, सरसगोशीर्षचन्दनेन तेषु चर्चकान् ददाति, पुष्पारोहणं यावत् आभरणारोहणं करोति. तथा तानि आसक्तावसक्त विपुलवृत्तालम्बित माल्यादमकलापानि करोति, कचग्रहगृहीत-यावद्-मुक्तपुष्पपुलओपचारकलितानि करोति धूपं च ददाति ९ । ततः स सूर्याभो देवो दाक्षिणात्यमुखमण्डपस्य उत्तरीयस्तम्भपतिसमीपे समागच्छति, लोमहस्तकं गृह्णाति लोमहस्तकेन स्तम्भांश्च शालभधिकाश्च व्यालरूपाणि च प्रमार्जयति तथा-दिव्यजलधाराभ्युक्षणादि धूपदानान्तं सर्व करोति १२ । ततः स दाक्षिणात्यमुखमण्डपस्य पौरस्त्ये द्वारे समागत्य लोमहस्तकं गृहीत्वा तेन द्वारचेटयौ द्वारशाखे च शालभअिकाश्च व्यालरूपाणि च प्रमार्जयति । अत ऊच धूपदानान्तं सर्व શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy