SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०४ राजप्रश्नीयसूत्रे तथा-केचिद् चतुर्विधं वादित्रं-बाद्यं वादयन्ति, वाद्यप्रकारानेवाह'ततम्' इत्यादि। तत्र-ततम् -मृदङ्गादिकम् विततं- वीणादिकम् , धनं-कांस्यतालादिकम् , शुषिरं-वंश्यादिकमिति । तथा केचिद् देवा; चतुर्विधं गेयं गायन्ति, तद्यथा-उत्क्षित, पादान्तं, मन्दं गेचितावसानमिति । एषामर्थः-अष्टचत्वारिंशत्तमसूत्रतोऽवसेयः। तथा केचिद् देवा द्रुतं नाट्यविधिमुपदर्शयन्तीत्यारन्थ 'भ्रान्त संभ्रान्तनामं दिव्यं नाट्यविधिम् उपदर्शयन्ति' इत्यन्तसन्दर्भोक्तानामर्थः षट्चत्वारिंशत्तममत्रतोऽवसेयः। तथाकेचिद् देवा दार्टान्तिक-प्रात्यन्तिक सामन्तोपनिपातिकान्तोर्मध्यावसानिकरूपं चतुर्विधम् अभिनयम् अभिनयन्ति । दार्टान्तिकादीनामर्थोऽप्टचत्वारिंशत्तमसूत्रतोऽवसेय इति । तथा-केचिद् देवाःबुत्कुर्वति-'बुत' इति शब्दं कुर्वन्ति, केचिद् देवाः पीनयन्ति-आत्मानं स्थूलं कुर्वन्ति, केचिद् लासयन्ति-लास्य नामकं नृत्यं कुर्वन्ति, केचिद् हकुर्वन्ति-'हक-हक्' इति शब्दं कुर्वन्ति, केचिद् वीणयन्ति-वीणावच्छब्दं कुर्वन्ति ताण्डवयन्ति--ताण्डवं नाम नृत्यं घ कुर्वन्ति केचित् पूर्व वल्गन्ति-कूदन्ते, पश्चात् आस्फोटयन्ति-करास्फोटं कुर्वन्ति, केचिश्व देवा पूर्वम् आस्फोटयन्ति पश्चाद वल्गन्ति । तथा-केचिद देवाः त्रिपदी छिन्द न्ति-पदत्रयमुल्लचन्यन्ति । तथा केचिद् देवाः हयहेषितम् -अश्वशब्दमिव कुर्वन्ति. केचिद् हस्तिगुलगुलायित-हस्तिनो गुलगुलशब्दमिव कुर्वन्ति, केचिद् रथ धनघनायितं-रथस्य घनघनशब्दमिव कुर्वन्ति, केचित् त्रिविधमपिशब्द कुर्वन्ति, तथा केचिद् देवाः उच्छलन्ति-सामान्यतः कूर्दन्ते केचित् प्रोच्छलन्ति -विशेषतः कूर्दन्ते, केचिच्च उत्कृष्टिकाम्-हर्षध्वनि कुर्वन्ति, केचित् उच्छलनं प्रोच्छलनं च कुर्वन्ति, केचित् त्रीण्यपि-उच्छलनं प्रोच्छलनं उत्कृष्टिकां चापि कुर्वन्ति । तथा च केचिद् देवाः अवपतन्ति-उपरितः अध आगच्छन्ति, केचित्उत्पतन्ति-अधम्तनप्रदेशादुपरिगच्छन्ति, केचित् परिपतन्ति-तिर्यग् निपतन्ति, केचिच्च देवाः त्रीण्यपि कुर्वन्ति । तथा-केचिद देवाः सिंहानादं कुर्वन्ति, कोचिद दर्दरकं-चन्दनोपलिप्तकरेण चपेटाकृतिं कुर्वन्ति, केचिद् भूमिचपेटां ददति-भूमौ चपेटाघातं कुर्वन्ति, केचिच्च त्रीण्यपि कुर्वन्ति । तथा-केचिद् गर्जन्ति-गर्जनं कुर्वन्ति, केचिद् विद्युदिवाचरन्ति-विद्युतं कुर्वन्ति, केचिद् वर्ष-वृष्टिं कुर्वन्ति, केचिच्च त्रीण्यपि-गर्जनं विद्युतं वर्ष चापि कुर्वन्ति । तथा-केचिद् ज्वलन्ति-ज्वलिता भवन्ति, केचित् तपन्ति-तप्ता भवन्ति, केचित् प्रतपन्तिप्रकर्षण तप्ता भवन्ति, केचिद देवाः त्रीण्यपि-ज्वलनं तपनं प्रतपनं चापि कुर्वन्ति । तथा-केचिद् हकुर्वन्ति-'हक्' इति शब्दं कुर्वन्ति केचित् थुत्कु શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy