________________
सुबोधिनी टीका. सू. ८७ सूर्याभविमानस्य देवकृतसज्जीकरणादिवर्णनम् ६०३ भूमौ लेपनम् , उल्लेपः- टिकादिना भित्यादेर्धवलीकरणं, ताभ्यां महित सुशोमितं गोशीर्षसरसरक्तचन्दनदर्द रदत्तपञ्चा ङ्गुलितलं – गोशीर्ष = गोशीर्षचन्दनं सरसं च यद् रक्तचन्दनं, ताम्यां सह ये दर्दराः हस्ततलाघाताः, ततो दत्तानि पञ्चाङ्गुलितलानि यस्मिन्तत्तथाविधं च कुर्वन्ति । तथा केचिद् देवः सूर्याभं विमानम् उपचितचन्दनकलशम्-उपचिताः याथातथ्येन व्यवस्थापिताः चन्दनकलशा=चन्दनचर्चितकलशाः-माङ्गलिककलशाः गृहान्तचतुष्केषु यत्र तत्तादृशं तथा-चन्दनघटसु तोरणप्रतिद्वारदेशभागं चन्दनघटाः सुकृताः-सुष्ठु स्थापिताः तोरणेषु-वहिरेषु प्रतिद्वारदेशभागेषु च यस्य तत्तादृशं च कुर्वन्ति । तथा केचिद् देवाः सूर्याभं विमानम् आसक्तावसक्तविपुलवृत्तालन्वितमाल्यदामकलापम् तत्र आसक्तः भूभिलग्नः अवसत्तः= उपरिलग्नश्च विपुलो विशालः प्रलम्बित:-प्रलम्बमानो माल्यदामकलापः-पुष्पमालासमूहो यस्मितत्तथाविधं कुर्वन्ति । तथा-केचिद् देवाः सूर्याभं विमान पञ्चवर्णसुरभिमुक्तपुष्पपुओ पचारकलितम् -पञ्चवर्णःसुरभिः - सुगन्धयुक्तोमुक्तविक्षिप्तो यः पुष्पपुञ्जःपुष्पसमूहः, तस्य उपचारेण-कल्पनया रचनाविशेषण कलित-युक्तं कुर्वन्ति । तथा-केचिद् देवाः सूर्याभं विमानं कालागुरुप्रवरकुन्दुरुप्कतुरुष्कधूपप्रसरद्गन्धोद्धताभिरामम् तत्र-कालागुरुः-कृष्णागुरुःप्रबरकुन्दु रुष्क-चीडाभिधानः सुगन्धिद्रव्यविशेषः, तुरुष्कं-सिहलकं धूपः-सुगन्धिद्रव्यसंयोगजनितश्च, एतेषां यः प्रसरन्-सर्वतो विसर्पन उद्भूतः-अत्युत्कटो गन्धस्तेन अभिराम-मनोहरं कुर्वन्ति । 'उद्धत' शब्दस्य परनिपात आपत्वात् । तथा केचिद् देवा सूर्याभ विमानं सुगन्धगन्धितं-सुगन्धेन-सौरभेण गन्धितंगन्धयुक्तम् , अत एव-गन्धवर्तिभूत-गन्धवत्तिकासदृशं कुर्वन्ति । तथा-केचिद् देवाः हिरण्यवर्षम्-अघटितसुवर्ण वृष्टि-, वर्षन्ति, केचिद् सुवर्णवर्ष-घटित सुवणवृष्टिं वर्षन्ति, केचिद् रजतवर्ष, रूप्यवृष्टिं वर्षन्ति, एवमेव कैचिद् वर्षन्ति, एवमेव-केचिद् वज्ररत्नवृष्टिम, केचिद् पुष्पवृष्टिम् , केचिद् 'फलवृष्टिम् , केचिद् माल्यवृष्टिम् , केचिद् गन्धवृष्टिम् , केचिद् चूर्णवृष्टिम् , केचित् . आभरणवृटि वर्षति । तथा-केचित् देवा हिरण्यविधिम्-अन्यदेवेभ्यो हिरण्यप्रदानरूवं माङ्गलिकं विधिं भाजयन्ति कुर्वन्ति, एवम्-अनेन प्रकारेण केचित् सुवर्णविधि-अन्य देवेभ्यः सुवर्णप्रदानरूपं माङ्गलिक विधिं भाजयन्ति-कुर्वन्ति,केचिद् रत्नविधिम् , केचित् पुष्पविधिम् , केचित्-फलविधिम् , केचित्, माल्यविधिम् , केचित् चूर्णविधिम् , केचिद् वस्त्रविधि भाजयन्ति, केचिच्च देवा गन्धविधिं भाजयन्ति । तत्र-सूर्याभस्य देवस्य इन्द्राभिषेकावसरे केचिद् देवा आभरणविधि-भाजमन्ति-कुर्वन्ति ।
શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧