________________
५०४
राजप्रश्नीयसूत्रे मणिपीठिका प्रज्ञप्ता। ताः खलु मणिपीठिकाः षोडश योजनानि आयामविष्कम्भेण, बाहल्येन-स्थौल्येन अष्ट योजनानि विज्ञेयाः। तथा-सर्वरत्नमय्यः-सबियवेन रत्नमय्यः अच्छा यावत् प्रतिरूपाच बोध्याः। तामां खलु मणिपीठिकानाम् एकैकस्या मणिपीठिकाया उपरि प्रत्येकं प्रत्येकम्-एकैकः स्तूपः प्रज्ञप्तः। ते खलु स्तूपाः षोडश षोडश योजनानि आयामविष्कम्भेण सातिरेकाणि-साधिकानि पोडश योजनानि उर्ध्वम् उच्चत्वेन विझेयाः। तथाते स्तूपाः श्वेताः-श्वेतवर्णाः शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशातत्र शङ्ख:-प्रसिद्धः अङ्कः स्फटिकरत्नं कुन्दं-पुष्पविशेषः, दकरजः-उदकविन्दुः अमृतमथितफेनपुञ्जः-अमृतस्य यद् मथितं-मथनं तेन जाता ये फेनास्तेषां पुञ्जः-समूहः' तत्सन्निकाशाः-धवलत्वेन शङ्खादिसदृशाः, सर्वरत्नमयाःसर्वावयवेन रत्नमयाः अच्छा यावत् प्रतिरूपा बोध्याः। तथा-तेषां खलु स्तूपानाम् उपरि अष्ठाष्ट-अष्टाष्टसंख्यकानि मङ्गलकानि-स्वस्तिकादीनि, ध्वजाः, छत्रातिच्छत्रास्ते यावत्-घण्टायुगलानि पताकातिपताकाः उत्पलहस्तकाःउत्पलसमूहाः कुमुदहस्तका नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः पुण्डरीकहस्तकाः महापुण्डरीकहस्तका शतपत्रहस्तकाः सहस्रपत्रहस्तकाश्व बोध्याः। घण्टायुगलादि सहस्रपत्रान्ताः शब्दा यावत्पदेन चतुर्दश सूत्रोक्ता ग्राह्याः। तथा तेषां खलु स्तूपानां प्रत्येकं प्रत्येकम्-एकैकस्य स्तपस्य चतु दिशि मणिपीठिकाःप्रज्ञप्ताः। ताःखलु मणिपीठिका अष्ट अष्ट योजनानि आयामवि कम्भेन, चत्वारि योजनानि वाहल्येन, सर्वरत्नमय्यः अच्छा यावत् प्रतिरूपा विज्ञेयाः। तासां खलु मणिपीठिकानाम् उपरि-उपरिभागे चतस्र-चतुस्संख्यका जिनप्रतिमाः-प्रतिकृतयः जिनोत्सेधप्रमाणमात्राः जिनशरीरोच्चत्वप्रमाणप्रमिताः संपल्यङ्कनिषण्णाः-पर्यङ्कासननेनोपविष्टाः स्तपाभिमुख्यः-स्तू पदिशि कृतमुख्यः-सन्निक्षिप्ताः-सम्यानिवेशिताः तिष्ठन्ति. तद्यथा-ऋषभा? वर्द्धमाना२ चन्द्रानना३ बारिषेणा४ ॥ सू० ७३॥ ___मूलम् –तेसि णं थूभाणं पुरओ पत्तेयं पत्तेयं मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं, सव्वमणिमईओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरि पत्तेय पत्तेयं चेंइयरुक्खे पण्णत्ते । ते णं चेइयरुक्खा अट्ट जोयणाई उडढं उच्चत्तेणं, अद्धजोयणं, उव्वेहेणं.
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧