________________
सुबोधिनी टीका. सू. ६० सूर्याभविमानवर्णनम् ख्यकोत्तमसुवर्णमयशलाकायुक्तानि, पुनः दईरमलयजसुगन्धिसर्वऋतुसुरभिशीतलच्छायानि-दराणि-प्रचुराणि यानि मलयजानि-श्रीखण्डचन्दनानि, तेषां सुगन्ध इव सुगन्धो यस्यां सा दईरमलयजसुगन्धिः सा सर्वऋतुसुरभिः सर्वेषु ऋतुषु शोभनगन्धसम्पन्ना शीतल-शैत्यगुणसमम्पन्ना छाया येषां तानि तथा, पुनः मङ्गलभक्तिचित्राणि मङ्गलानां स्वस्तिकाद्यष्टमङ्गलानां भक्तया रचनया चित्राणि अद्भुतानि, पुनः चन्द्राऽऽकारोपमानि चन्द्रमण्डलवद् वर्तुलानि सन्ति ।
तेषां खलु तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते तानि खलु चामराणि चन्द्रप्रभ-वैड्य-वज्र-नानामणि रत्नखचितचित्रदण्डानि खचितानि संलग्नानि चन्द्रप्रभ-वैडूर्य-नानामणि-रत्नानि तत्र चन्द्रप्रभः चन्द्रकान्तनामामणिः वैड्य वैडूर्यनाम रत्नं प्रसिद्धं, वज्र-वज्ररत्नं, नानामणिरत्नानि अनेकजातीयमणि रत्नानि च येषु ( दण्डेषु) ते चन्द्रप्रभ-वैडूर्य-चत्र नानामणिरत्नखचित्ताः खचित चन्द्रप्रभादिनानामणिरत्नाः इत्यर्थः, तादृशाः चित्राः अनेकवर्णत्वादद्भुताः दण्डा येषु तानि तथा, पुनः सूक्ष्मरजतदीर्घवालानि-सूक्ष्मा:प्रतनूकृताः रजतदीर्घवालाः रजत मयदीर्घकेशाः येषु तानि तथा-सूक्ष्मरजतमयदीर्घकेशयुक्तानि, पुनः शङ्खाङ्ककुन्ददक रजोमृतमथितफेनपुञ्जसंनिकाशानि शङ्ख प्रसिद्धः, अङ्क रत्नविशेषः कुन्द-कुन्दाभिधपुष्पम्, दकरजः जलकणः, अमृतमथितफेनपुञ्जः-मथितामृतफेनसमूहः, एते श्वेतवर्णाः सन्ति, तैः संनिकाशानि सदृशानि तानि चामराणि पुनः सर्वरत्नमयानि – सर्वात्मना रत्नमयानि, अच्छानि यावत् प्रतिरूपाणि - ' अच्छानि' इत्यादिपदानां संग्रहस्तदर्थश्च पूर्ववद् बोध्यः । चामरशब्दस्य स्त्रीनपुंसकलिङ्गत्वं, तेन मुले स्त्रीत्वेन निर्देशः तेषां खलु तोरणानां पुरतो द्वौ द्वौ तैलसमुद्गौसुगन्धितैलपूर्णसंपुटौ तथा द्वौ द्वौ कोष्ठसमुद्गौ-सुगन्धिद्रव्यविशेषसंपुटौ एवम् पत्रचोयक-तगरे-ला-हरिताल-हिङ्ग-मनःशिला-ऽअनानां द्वौ द्वौ समुद्रा-तत्र पत्रं-सुगंधिपत्रम् , चोयक-मुगन्धिद्रव्यविशेषः, तगरोऽपि सुगन्धितरुदारुविशेषः, एला-त्रिपुटा 'इलाईची' इति भाषाप्रसिद्धा, हरिताल-हिङ्गेलौ प्रसिद्धौ, मनः शिला प्रसिद्धा, अञ्जन-कजलम् , एषां समुद्गौ द्वौ द्वौ प्रज्ञप्तौ । ते तैरादिसमुद्गौ सर्वरत्नमया:-सर्वात्मना रत्नमयाः, अच्छा यावत् प्रतिरूपा बोध्याः ॥मू०६०॥
मूलम् – सूरियाभे णं विमाणे एगमेगे दारे अट्ठसयं चकज्झयाणं अहसयं २ मिगज्झयाणं गरुडज्झयाणं कुंचज्झयाणं छत्तज्झयाणं रिच्छज्झयाणं सउणिज्झयाणं सीहन्झयाणं उस
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧