SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९४ राजप्रनीयसूत्रे वस्तृतः = आच्छादितः स्वया - निजया, प्रभया - दीप्त्या तानू - रत्नकरण्डासन्नान, प्रदेशान् सर्वतः सर्वदिक्षु समन्तात् सर्वविदिक्षु अवभासयति - प्रकाशयति, उद्योतयति, तापयनि, प्रभासयति, एतानि समानार्थकानि पुनरतिशयप्रकाशनार्थमुक्तानि तेन प्रकृष्टं प्रकाशयतीत्यर्थः । एवमेव पूर्वोक्तरत्नकरण्डकव देवतेऽपि - तोरणाग्रस्थिताअपि रत्नकरण्डकास्वया - स्वकीयया प्रभया - तान् प्रदेशान् = आसन्नस्थानानि सर्वतः समन्तात् अवभासयन्ति, उद्योतयन्ति तापयन्ति - प्रभासयन्ति । - तेषां खलु तोरणानां पुरतो द्वौ द्वौ हयकण्ठौ - अश्वकण्ठाकृतिकौ 'घोडला' इतिभाषा प्रसिद्धौ प्रज्ञप्तौ एवं गज-नर- किन्नर - किंपुरुष महोरग - गन्धर्ववृषभाणामपि द्वौ द्वौ कण्ठौ प्रज्ञप्तौ । तत्र ते हयकण्ठादिकाः सर्वे सर्वरत्नमयाः - अच्छाः, यावत् प्रतिरूपाः - 'अच्छा:' इति पदादारभ्य प्रतिरूपा इति पर्यन्तपदानां सङ्ग्रहः प्राग्वत् तदर्थव प्राग्वदेव । , तेषु हयकण्ठेषु यावद् - वृषभकण्ठेषु द्वे द्वे पुष्पचङ्गेय्यौ, प्रज्ञप्ते' इत्यु तरेण सम्बन्धः, एवं द्वे द्वे माल्य चङ्गेय्यौ, चूर्णचय्यों गन्धचङ्गेय्य, वस्त्र चङ्गेय्य, आभरणचङ्गेय्य, सिद्धार्थचङ्गेय्य लोमहस्तचङ्गेय्य प्रज्ञप्ते । ताः खलु पुष्पादिचङ्गेयः सर्वरत्नमयाः - अच्छा ः यावत् प्रतिरूपाः 'अच्छा' इति पदादारभ्य 'प्रतिरूपा ;' इति पर्यन्तपदानां सङ्ग्रहोऽर्थव प्राग्वत् । तासु खलु पुष्पचङ्गेरिकासु यावद् लोमहस्तचङ्गेरिकासु द्वे द्वे पुष्पपटलके = पुष्पमयाच्छादन विशेषौ यावत् - यावत्पदेन माल्यपटलके, चूर्णपटलके' गन्धपटलके, वस्त्रपटलके आभरणपटलके, सिद्धार्थपटलके इति संग्राह्यम्, तथालोमहस्तपटलके एषां व्याख्या स्पष्टा । तानि खलु पुष्पादिपटलकानि सर्वरत्नमयानि अच्छानि यावत् - यावत्पदेन प्राग्वद्गृहीतानां पदानां तथा - प्रतिरूपाणि' अस्य च व्याख्या प्राग्वत् । तेषां खलु तोरणानां परतः द्वे द्वे सिंहासने प्रज्ञप्ते तेषां खलु सिंहासनानां वर्णावासः - वर्णनपद्धतिः यावत् दामानि - दामवर्णनपर्यन्तानि बोध्यानि तच्च पदजातमेकविंशतितम द्वाविंशतितमसूत्रतः सङ्ग्राह्यम् तदर्थश्च तत एव बोध्यः तेषां खलु तोरणानां पुरतो द्वे द्वे रूप्यमये - रजतमये छत्रे प्रज्ञप्ते । तानि-रजतमयानि खलु छत्राणि वैडूर्यविमलदण्डानि - वैडूर्यमणिमय स्वच्छदण्डयुक्तानि पुनः जाम्बूनदकर्णिकानि - जाम्बूनदाभिधस्वर्णविशेषमय कर्णिकायुक्तानि, पुनः वज्रसम्बन्धिनि वज्ररत्नमयदण्डशलाकासन्धानानि, पुनः मुक्ताजालपरिगतानि - मुक्ताफलजालपरिवेष्टितानि पुनः अष्ट सहस्रवरकाश्चनशलाकानि-अष्टसहस्रसं શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy