________________
३०४
राजप्रश्नीयसूत्रे 'चंदुग्गमणपविभर्ति च' इत्यादि
टीका--चन्द्रोद्गमनप्रविभक्ति-चन्द्रस्य उद्गमनम्-उदयः, तस्य या प्रविभक्तिः-प्रकृष्टरचना तद्युक्तम् नाट्यविधिमुपदर्शयन्तीति परेणान्वयः, तथासूरोद्गमनप्रविभक्ति-सूर्योदयसुरचनायुक्तम् , उद्गमनोद्गमनप्रविभक्तिम्-उद्गमनोद्गमनरचनात्मकं नाम षष्टं दिव्य-प्रधानं नाटयविधिम् उपदर्शयन्ति ॥६॥
चन्द्राऽऽगमनप्रविभक्ति-चन्द्राऽऽगमन सुरचना युक्तम् सूरागमनप्रविभक्ति-सूर्याऽऽगमनसुरचनायुक्तम् , आगमनाऽऽगमनप्रविभक्तिं सप्तमं दिव्यं नाटयविधिमुपदर्शयन्ति ॥७॥
चन्द्राऽऽवरणप्रविभक्तिं – चन्द्राकारचित्रोपेताऽऽवरणपटसुरचनायुक्तम् एवं सूर्यावरमप्रविभक्ति-सूर्याकारचित्रयुक्तावरणोपेतम् , आवरणावरणप्रविभक्तिं नामाष्टमं दिव्यं नाटयविधिमुपदर्शयन्ति ॥८॥
चन्द्रास्तमनप्रविभक्ति-चन्द्रस्य यदस्तमनम्-तस्य या प्रविभक्तिः-सुरचना तयुक्तम् , एवं सूरास्तमनप्रविभक्तिं अस्तमनास्तमनप्रविभक्तिं नाम नवमं दिव्यं नाटयविधिमुपदर्शयन्ति ॥ ९॥
___ चन्द्रमण्डलप्रविभक्ति-चन्द्रमण्डलसुरचनायुक्तम् , एवं सूरमण्डलप्रविभक्ति सूर्यमण्डलसुरचनायुक्तम् , नागमण्डलप्रविभक्तिं नागमण्डलसुरचनायुक्तं, यक्षमण्डलप्रविभक्तिं यक्षमण्डलसुरचनायुक्तम् , भूतमण्डलप्रविभक्ति-भूतमण्डलसुरचनायुक्तम् , एवं रक्षोमण्डलमहोरगमण्डल गन्धर्वमण्डलपविभक्तिं मण्डलमण्डलप्रविभक्तिं नाम दशमं दिव्यं नाटयविधिमुपदर्शयन्ति ॥१०॥
ऋषभललितविक्रान्तं-बलीवर्दललितगतियुक्तम् , सिंहललितगतिविक्रान्तम्सिंहललितगतियुक्तम् , इति, (हयविलम्बितम् अश्वविलम्बितगतियुक्तमिति, एवं-गजविलम्बितम्-हस्तिविलम्बित, गतियुक्तमिति मत्तहयविलसितं-मत्ताश्वशोभनगतियुक्तम् , एवं मत्तगजविलसितं मत्तहस्तिशोभनगतियुक्तम् , द्रुतविलम्बितं नामैकादशं दिव्यं नाट्यविधिमुपदर्शयन्ति ॥११॥
शकटीद्धीप्रविभक्तिं शकटस्य 'उद्धी' शकटावयववाचको देशीयः शब्दः, शकटावयव रचनायुक्तम् , सागरप्रविभक्ति-समुद्रसुरचनायुक्तम् , नगरनिवासिजनसुरचनायुक्तम् सागरनागरप्रविभक्ति-नाम द्वादशं दिव्यं नाटयविधिमुपदर्शयन्ति ॥१२॥ विधिका उन्होंने प्रदर्शन कराया. इस सूत्रकी व्याख्या मूलार्थ जैसी ही हैं ॥ ४६॥ બ્રમણથી યુક્ત, આ સર્વ વિશેષણોથી યુક્ત એવી ૩૧મી દિવ્ય નાટ્યવિધિનું તેમણે પ્રદર્શન કરાવ્યું. આ સૂત્રને ટીકાર્થ મૂલાઈ પ્રમાણે છે. સૂ૦ ૪૬ છે.
શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧