SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०५ सुबोधिनी टीका. सू. ४६ सूर्याभेण नाट्यविधिप्रदर्शनम् नन्दाप्रविभक्ति - नन्दापुष्करिणी-वापीसुरचनायुक्तम् , चम्पाप्रविभक्तिं चम्पापुष्पवृक्षसुरचनायुक्तम् , नन्दा-चम्पाप्रविभक्तिं नाम त्रयोदशं दिव्यं नाट्यविधिमुपदर्शयन्ति । १३ । मत्स्याण्डप्रविभक्ति-मत्स्याण्डकसुरचनायुक्तम् मकराण्डकप्रविभक्तिं मकरो ग्राहस्तस्याण्डसुरचनायुक्तम् , जारप्रविभक्ति-जारो-मणिलक्षणविशेषः, तल्लक्षितमणिसुरचनायुक्तम् , एवं मारप्रविभक्ति-मारो-मणिलक्षणविशेषः, तल्लक्षितमणिसुरचनायुक्तम् , मत्स्याण्डकजारमारप्रविभक्ति नाम चतुर्दशं दिव्यं नाट्यविधिमुपदर्शयन्ति । १४ । तदनन्तरं केति-ब्राम्यां लिपौ "+" इत्याकारः ककारः तादृश संस्थिता देवकुमारादयो नृत्तवन्त इत्यभिप्रायेण ककारप्रविभक्ति-ककाराक्षरसुरचनायुक्तं नाटकविधिमित्याधुक्तम् , एवं खेति खकारप्रविभक्ति मित्यादावपि ब्राह्मीलिपिरनुसरणीया, शेषं सुगमम् । स्वराणां यकारादीनां च व्यञ्जनानां मुरचनायोगो नाट्य विधौ न दर्शितस्तत्रैतिहासिकं कारणं मृग्यम् । अशोकपल्लवप्रविभक्ति-अशोकपल्लवसुरचना युक्तम् आम्रपल्लवप्रभक्तिम् -आम्रपल्लवसुरचनायुक्तम् जम्बूपल्लवप्रविभक्तिं जम्बूवृक्षपल्लवसुरचनायुक्तम् , कोशाम्रपल्लवप्रल्लविभक्ति-कोशाम्रः-आम्रवृक्षसदृशः, तत्पल्लवसुरचनायुक्तम् , पल्लवपल्लवप्रविभक्ति नाम विंशतितमं दिव्यं नाटयविधिमुपदर्शयन्ति ।२०। पद्मलता प्रविभक्ति-कमललता सुरचनायुक्तम् यावत्-यावत्पदेन-'नागलताप्रविभक्तिम् , अशोकलताप्रविभक्ति, चम्पकलताप्रविक्तिं, चूतलताप्रविभक्ति, वनलताप्रविभक्तिं, वासन्तीलताप्रविभक्ति, कुन्दलता प्रविभक्तिम् , अतिमुक्तकलताप्रविभक्तिम् इत्येषां सङ्ग्रहः, तथा - श्यामलताप्रविभक्ति-श्यामायालतायाः सुरचनायुक्तम् लताप्रविभक्ति नामैकविंशतितमं दिव्यं नाटयविधिमुपदर्शयन्ति ।२१॥ तदनन्तरं द्रुतं-शीघ्रयुक्तं नाम द्वाविंशतितमं दिव्यं नाटयविधिमुपदर्शयन्ति ।२२। द्रुत विलम्बितं-पूर्व द्रुतं पश्चाद् विलम्बयुक्तं नाम चतुर्विंशतितमं नाटयविधिमुपदर्शयन्ति ।२४। अञ्चितम्-अञ्चनं प्रशस्तगमनम् तद् रचना युक्तं नाम पञ्चविंशतितमं दिव्यं नाटथविधिमुपदर्शयन्ति ॥२५॥ रिमितं तन्नामकं षडविंशतितमं दिव्यं नाटयविधिमुपदर्शयन्ति ॥२६॥ अञ्चितरिभितं पूर्वोक्ताचितरिभितोभयगुणसंपन्नं नाम सप्तविंशतितम नाटयविधिमुपदर्शयन्ति ॥२७॥ आरभटम्-आरभटनामकमष्टविंशतितम नाट्यविधिमुपदर्शयन्ति ॥२८॥ भसोलं શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy