________________
राजप्रश्नीयसूत्रे हैमन्तिकबालिकसूर्यस्तस्य-हेमन्ते भवो यो बालिकः बाल एव बालिकः अत्र विनयादित्वादृक् स चासौ सूर्यश्चेति हैमन्तिकबालिक सूर्यस्तस्य हेमन्तऋतुभवबालसूर्यस्य यो वर्णः तादृशो वर्णों दिव्ययानविमानस्य, एवमग्रेऽपि, तथा -खादिरा-झाराणां-खदिरदाहेन ये अङ्गारा:-अग्नयस्तेषाम् , कीदृशानां तेषाम् ? रात्रौ प्रज्वलितानाम् , तथा-जपाकुसुमवनस्य-जपाख्यपुष्पवनस्य, तथा किंशुकवनस्य-पलाशवनस्य, तथा – पारिजातनामकपुष्पवनस्य कीदृशस्य ?- सर्वतःसर्वासु दिक्षु समन्ततः-सर्वविदिक्षु च सामस्त्येन सङ्कसुमितस्य-सम्यक् पुष्पितस्य यादृशो वर्णस्तादृशो वर्णों दिव्ययानविमानस्य बोध्यः। अत्रान्तरे शिष्यः पृच्छति-'भवेद् एतद्रूपः स्यात् ? एतेषां यो वर्णस्तत्सदृशो यानविमानस्य वर्णों भवेत् ? गुरुरुत्तरयति-नो अयमर्थः समर्थः किन्तु उपमानमात्रप्रदर्शनमिदम् । तस्य खलु यानविमानस्य वर्णः इतः-उक्त प्रकारक सूर्यादिसकाशात् इष्टतरकः -रक्तेन वर्णेनातिशयेनाभीप्सितएव-यावत्-यावत्पदेन-कान्ततरक एव, मनोज्ञतरक एव, मनोऽमतरक एव' एतत्पदसङ्ग्रहो बोध्यः, वर्णेन प्रज्ञप्तः' एषां व्याख्या पञ्चदशसूत्रतोऽवसेया।
तस्य यानविमानस्य गन्धः च-पुनः स्पर्शः कीदृशः ? इत्यपेक्षायामाह-यथा मणीनां - मणीनां यादृशो गन्धः स्पर्शश्च तादृशोऽस्यापि बोध्यः। मणीनां गन्धस्पर्शयोवर्णनमष्टादशतमे एकोनविंशतितमे च सूत्रे विलोकनीयम् ।
ततः-तदन्तरं खलु सः - पूर्वोक्तः आभियोगिको देवः दिव्यं यानविमानं विकरोति, विकृत्य यत्रैव सूर्याभो देव आसीत् तत्रैव उपागच्छति, उपागम्य सूर्याभं देवं करतलपरिगृहीतं यावत्-यावत्पदेन 'दशनखं, शिर आवतै मस्तके, अनलिं, कृत्वा, जयेन, विजयेन, वर्द्धयति, वर्द्धयित्वा एताम् , आज्ञप्तिकाम्' इत्येतत्पदसङ्ग्रहो बोध्यः, प्रत्यर्पयति एषां व्याख्या गता ॥ सू० २३ ॥
मूलम्-तएणं से सूरियाभे देवे आभियोगियस्स देवस्स अंतिए एयमदं निसम्म हट्ठ जाव हियए दिव्वं जिणिदाभिगमणजोग्गं उत्तरवेउवियरूवं विउव्वइ, विउव्वित्ता चउहिं
अग्गमहिसीहिं सपरिवाराहिं, दोहि अणीएहिं, तं जहागंधव्वाणीएण य णहाणीएण य सद्धिं संपरिबुडे तं दिवं जाणविमाणं अणुपयाहिणो करेमाणे २ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहइ, दुरूहित्ता जेणेव सोहासणे तेणेव
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧