________________
अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार शरीर वर्णनम्
___तथा दृश्यमानः पार्थास्थिकटकैः पार्श्वभागास्थिसमूहैर्लक्षितः । तस्य पार्श्वभागावस्थितास्थीनि मांसावरणरहितत्वेन पृथक् पृथक् सुव्यक्तं दृश्यमानानि भवन्तीत्यर्थः तथा अक्षमूत्रमालाभिरिव रुद्राक्षमालाभिरिव गण्यमानैः संख्यायमानः पृष्ठकरण्डकसन्धिभिः-करण्डकं =वंशदलिकानिर्मितं टोकरीपात्रं तदिव पृष्ठं पृष्ठकरण्डकं, तस्य सन्धयः अस्यां बन्धनस्थानानि, तैरुपलक्षितः । तस्य पृष्ठभागसंलग्नास्थिबन्धनस्थानानि, रुद्राक्षमालाप्रतिबद्धप्रत्येकमणकवद् गण्यमानान्यभूवन्नित्यर्थः । अत्र करण्डकशब्देन वंशदलीकानिर्मितटोकरीपात्रसम्बन्धिवंशदलिका यथा प्रत्येकं गणयितुं शक्यन्ते तथैवास्य मुनेः पृष्ठगतास्थीनि सर्वाणि प्रत्येक गणयितुं योग्यानि बभूवुरिति बोधितम् । तथा गङ्गातरङ्गभूतेन-गङ्गातरङ्गरूपेण उर:कटकदेशभागेन-उर:कटकस्य-वक्षःस्थलसम्बन्ध्यस्थिपञ्जरस्य देशभागः विभागः, तेनोपलक्षितः । तत्रत्यमांसशोणितयोरतिशुष्कतया श्वासोच्छ्वाससञ्चाराद् गङ्गातरङ्गवनिम्नोन्नतभावेन तस्य वक्षःस्थलास्थीनि सुव्यक्तदृश्यमानान्यभूवन् ।
तथा शुष्कसर्पसमानाभ्यां वाहुभ्यामुपलक्षितः । बाहुगतमांसशोणितयो
उन की पसलियां मांस, रक्त के सूख जाने से जुदी- जुदी स्पष्ट दीख पडती थी। उनकी पीठ की हड्डियों का जुडाव तथा अस्थियां, मांस एवं शोणित के अभाव से रुद्राक्षकी माला के मणके की तरह, अथवा बांस की टोकरी की प्रत्येक शलाका-खापटी की तरह, अलग-अलग गिनी जा सकती थीं। उनका वक्षस्थल-छाती-की हड्डियां, मांस, रक्त के अभाव से श्वास लेने तथा छोडने से गङ्गा की तरङ्गों के समान ऊंची - नीची होती हुई स्पष्ट दिखाई देती थीं।
उनकी भुजाएं मांस एवं शोणित के अभाव से अत्यन्त शुष्क हो जाने के कारण केवल हड्डिया, चर्म तथा नसों की जालबाली, सूखे
તેમની પાસળીયે માંસ અને રકતના સુકાઈ જાવાથી જુદી જુદી સ્પષ્ટ દેખાતી હતી
તેમના વાંસાના (પીઠના) હાડકાઓના સંધિ અને હાડકાં જે પ્રકારે રૂદ્રાક્ષની માળાના મણકા જુદા જુદા ગણી શકાય છે અથવા વાંસની ટેપલીની પ્રત્યેક ચીર જુદી જુદી ગણી શકાય છે તે જ પ્રકારે માંસ અને શાણિતના અભાવે જુદા જુદા ગણાઈ શકાતા હતા. તેમનાં વક્ષસ્થલ–છાતી–ના હાડકા માંસ તેમ જ રકતના અભાવથી વાસ લેતી વખતે તથા છેડતી વખતે ગંગાના તરંગની માફક ઉંચા નીચા થતા સ્પષ્ટ દેખાતા હતા. તેમની ભુજાઓ માંસ અને રક્તના અભાવે અત્યન્ત શુષ્ક થઈ જવાથી ફક્ત
શ્રી અનુત્તરોપપાતિક સૂત્ર