________________
अगारधर्मसञ्जीवनी टीका अ.१ सू. ५१ उपभोगपरिभोग व्रतातिचारवर्णनम् २९३ कठोराणां कर्मणामादानं ग्रहणं यैरिति व्युत्पत्तेः । एतानि पञ्चदश कर्मादानानि श्रमणोपासका न स्वयं कुर्वन्ति, नान्यद्वारा कारयन्ति, कुर्वन्तं वाऽन्यं नानुजानन्तितथा चोक्तं भगवत्याम्__ "जे इमे समणोवासगा भवंति तेर्सि नो कप्पंति इमाइं पण्णरस कम्मादाणाई संयं करेत्तए वा करेंतं वा अन्नं समणुजाणेत्तए।" इति । भनेत्थं सहगाथाः
अस्सऽइयारा पणरस, हवंति अग्गे कमेण दट्ठव्वा । दहिऊण कट्ठजायं, तस्सिगालेहिं जीवियायणं ॥१॥ इंगालकम्मणामा, पढमो अस्सऽस्थि अइयारो । वणकम्मम्वो बीओ, छित्ता जं कट्ठविक्कयायरणं ॥२॥ सगडविणिम्मिइकज्ज, साडीकम्माभिहो तीओ । पसुपाभइहिं च भाडग, गहणा जं जीवियासमायरणं ॥३॥ सो अइयारो चोत्थो, भाडीकम्माभिहो णेओ। पत्थरदारणपुढवी,-खणणव्वावारजीवियायरणं ॥ ४॥ फोडीकम्मक्खो इह, अइयारो पंचमो बुत्तो । छट्ठो गयाइदंत,-व्वावारो हवइ दंतवाणिज्जं ॥५॥ तयणु य जउकयविक्कय-वावारो लक्खवाणिज्ज । मजाइक्कयविकय,-वावरा जीविया णिव्वाहो ॥६॥ एतच्छाया च" अस्यातिचाराः पञ्चदश भवन्ति, अग्रे क्रमेण द्रष्टव्याः । दग्ध्वा काष्ठजातं, तस्येङ्गालैजीविकाऽऽचरणम् ॥१॥ इङ्गालकनामा, प्रथमोऽस्यास्त्यतिचारः ।। वनकर्माख्यो द्वितीयश्छित्वा यत्काष्ठविक्रयाचरणम् ॥ २॥ शकटविनिम्मितिकार्य, शाकटिककर्माभिधस्तृतीयः । पशुप्रभृतिभिश्च भाटकग्रहणायज्जीविकासमाचरणम् ॥३॥ सोऽतिचारश्चतुर्थों भाटीकर्माभिधो ज्ञेयः ।। मस्तरदारण-पृथिवीखनन-व्यापारजोविकाचरणम् ॥ ४॥ स्फोटीकर्माख्य इहातीचारः पञ्चम उक्तः। षष्ठो गजादिदन्तब्यापारो भवति दन्तवाणिज्यम् ॥५॥ तदनु च जतुक्रयविक्रय-व्यापारो लाक्षावाणिज्यम् । मद्यादिक्रयविक्रयव्यापाराजीविकाया निर्वाहः ॥ ६ ॥
ઉપાસક દશાંગ સૂત્ર