SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३० भगवतीसूत्र चक्षुरिन्द्रिय-घ्राणेन्द्रिय-निहेन्द्रिय-स्पर्शनेन्द्रियाणि निरुपहतानि क्शे वर्तन्ते तदेतत् इन्द्रिययापनीयम् । अथ किं तत् नो इन्द्रिययापनीयम् , नो इन्द्रिययापनीयम् यन्मे क्रोधमानमायालोभाव्यवच्छिन्ना नो उदीरयन्ति तदेतत् नो इन्द्रिययापनीयम् । कस्ते भदन्त ! अव्यावाधः सोमिल ! यत् मे वातिकपैत्तिकश्लैष्मिकसानिपातिका विविधा रोगातङ्काः शरीरगता दोषा उपशान्ता नो उदोरवन्ति स एष अध्या. बाधः। अथ कस्ते भदन्त ! मासुकविहारः ? सोमिल ! यत् खलु आरामेषु उद्यानेषु देवकुलेषु समासु प्रपासु स्त्रीपशुपण्डकरहितासु वसतिषु मासुकैषणीयपीठफलकशय्यासंस्तारकमुपसंपद्य खलु विहरामि स एषः प्रासुकविहारः 'सरिसवया' (सर्वपकाः सदृशवयसः) ते भदन्त किं भक्ष्या अभक्ष्या सोमिल ! 'सरिसक्या' मे भक्ष्या अपि अभक्ष्या अपि । तत्केनार्थेन भदन्त ! एवमुच्यते 'सरिसबया' मे भक्ष्या अपि अमक्ष्या अपि, तत् नूनं ते सोमिल ! बाह्मण्येषु नयेषु द्विविधाः 'सरिसवया' प्रज्ञप्ताः तद्यथा मित्रसरिसवया (सशस्यसः) च धान्य सरिसबयाश्च (धान्यसर्ष पाश्च) तत्र खलु ये मित्रसरिसरया ते त्रिविधाः प्रज्ञप्ताः तद्यथा सहजाताश्च सहवड़िताश्व सहपांशुक्रीडिताश्व ते खलु श्रमणानां निग्रन्थानाम् अभक्ष्याः तत्र खलु ये धान्यसरिसवया (धान्यसर्षपा) ते द्विविधाः प्रज्ञप्ताः तद्यथा शस्त्रपरिणताश्चाशस्त्रपरिणताश्च तत्र खलु ये अशस्त्रपरिणतास्ते खलु श्रमणानां निर्ग्रन्थानाम् अभक्ष्याः, तत्र खलु ये ते शस्त्रपरिणताः ते द्विधाः प्रज्ञप्ताः तद्यथा एषणीयाश्चानेषणीयाश्च तत्र खलु ये अनेषणीयास्ते श्रमणानां निर्यन्थानाम् अभक्ष्याः, तत्र खलु ये एषणीया. स्ते द्विविधाः प्रज्ञप्ताः तद्यथा-याचिताश्चायाचिनाश्च तत्र खलु ये अयाचित्तास्ते श्रमणानां निग्रन्थानाम् अभक्ष्याः, तत्र खल्ल ये याचितास्ते द्विधाः मज्ञप्ता, तद्यथा-लब्धाश्च अलब्धाश्च, तत्र खलु ये अलब्धास्ते श्रमणानां निग्रन्थानाम् अमक्ष्याः, तत्र खलु ये लब्धास्ते खलु श्रमगानां निर्ग्रन्थानां भक्ष्याः, तत् तेनार्थेन सोमिल ! एवमुच्यते यावत् अभक्ष्या अपि । मासा ते भदन्त । किं भक्ष्याः अभक्ष्याः, सोमिल ! माता में भक्ष्या अपि अमक्ष्या अपि तत्केनार्थेन यावत् अभक्ष्या अपि, तत् नूनं ते सोमिल ! ब्राह्मण्येषु नयेषु द्विविधा मासा प्रज्ञप्ताः तद्यथा द्रव्यमासाः च कालमासाश्च तत्र खलु ये कालमासास्ते खलु श्रावणादिकाः अपाढपर्यवसानाः द्वादशाः प्रज्ञप्ताः तद्यथा श्रावणभाद्रपदाश्विनकातिकमार्गशीर्ष पौष माधकालानचैत्रवैशाखज्येष्ठामूलाषाढाः, ते खलु श्रमणानां निग्रं स्थानाम अभक्ष्याः, तत्र खलु ये ते द्रव्यमासाः ते द्विविधाः प्रज्ञप्ताः अर्थमासाः च धान्यमासा: च तत्र खलु ये ते अथेमासास्ते द्विविधाः प्रज्ञप्ता: तद्यथा सुवर्णमासाः च रूप्यमासाः च ते खलु श्रमगानां निग्रेन्थानाम् अमक्ष्याः, तत्र खलु ये ते धान्य. मासा ते द्विविधाः प्रज्ञप्ताः तद्यया शस्त्रपरिणताश्चाशत्रपरिणताश्च एवं यथा શ્રી ભગવતી સૂત્ર : ૧૩
SR No.006327
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages970
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy