SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०१० सू०४ द्रव्यधर्मविशेषादिनिरूपणम् २२९ दुविहा कुलत्था पन्नत्ता तं जहा इथि कुलत्थाय धन्नकुलत्थाय तत्थ णं जे ते इस्थिकुलत्था ते तिविहा पन्नत्ता तं जहा कुलकन्नयाइ वा कुल वहुयाइ वा कुलमाउयाइ वा ते णं समणाणं णिग्गंथाणं अभक्खेया तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसया से तेणटेणं जाव अभक्खेया वि ॥सू०४॥ छाया-तस्मिन् काले तस्मिन् समये वाणिज्यग्रामं नाम नगरमासीत् वर्णकः, दुतीपलाशकं चैत्यम् वर्णकः तत्र खलु वाणिज्यग्रामे नगरे सोमिलो नाम ब्राह्मणः परिवसति आढयो यावत् अपरिभूतः ऋग्वेद० यावत् सुपरिनिष्ठितः पश्चानां खण्डिकशतानां स्वकस्य कुटुंबस्य आधिपत्यं यावद् विहरति । ततः खलु श्रमणो भगवान् महावीरो यावत् समरसता यावत् परिपत् पर्युपास्ते, ततः खलु तस्य सोमिलस्य ब्राह्मणस्य एतस्याः कथाया लब्धार्थस्य सतः अयमेतावद्र्पो यावत् समुत्पद्यत एवं खलु श्रमणो ज्ञातपुत्रः पूर्वानुपूर्व्या चरन् ग्रामानुग्राम द्रवन् सुखं सुखेन यावदिहागतः यावद् दूतीपलाश के चैत्ये यथापतिरूपं यावद्विहरति, तद्गच्छामि खलु श्रमणस्य ज्ञातपुत्रस्यान्तिके प्रादुर्भवामि इमान् खलु एतावद्रूपान् अर्थान् यावद् व्याकरणानि पक्ष्यामि तत् यदि मे इमानेतावद्रूपान् अर्थान् यावद् व्याकरणानि व्याकरिष्यति ततः खलु वन्दिध्ये नमस्यामि यावत् पर्युपास्ये तत् यदि मे स इमान् एतावद्रूपान् अर्थान् यावत् व्याकरणानि नो व्याकरिष्यति ततः खलु एभिरेव अर्थश्च यावद् व्याकरणैश्च निस्स्पष्टप्रश्नव्याकरणं करिष्यामीति कृत्वा एवं संपेक्षते संप्रेक्ष्य स्नातो यावत् शरीरः स्वगृहात् प्रतिनिष्कामति प्रति निष्क्रम्य पादविहारचारेण एकेन खण्डिकशतेन साई संपरिवृतो वाणिज्यग्राम नगर मध्य मध्येन निर्गच्छति निर्गत्य यत्रैव दूतीपलाशकं चैत्यं यत्रैव श्रमणो भगवान महावीर स्तत्रैवोपागच्छति उपागत्य श्रमणस्य भगवतो महावीरस्यादूरासन्ने स्थित्वा श्रमगं भगवन्तं महावीरम् एवमवादीत् यात्रा ते भदन्त ! पापनीयं ते भदन्त !, अव्यावाधा ते भदन्त ! मासुकविहारः ते मदन्त ! सोमिल ! यात्रा अपि मे यापनीयमपि मे अव्यायाधोऽपि मे मासुकविहा. रोऽपि मे। किं ते भदन्त ! यात्रा ? सोमिल ! यन्मे तपो नियमसंयमस्वाध्यायध्यानावश्यकादिकेषु योगेषु यतना सा यात्रा। किं ते भदन्त ! यापनीयम् । सोमिल ! यापनीयं द्विविधं प्रज्ञप्तम् तद्यथा इन्द्रिययापनीयं च, नो इन्द्रिययापनीय च । अथ किं तत् इन्द्रिययापनीयम् ? सोमिल ! इन्द्रिययापनीयं यन्मे श्रोत्रेन्द्रिय શ્રી ભગવતી સૂત્ર : ૧૩
SR No.006327
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages970
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy