________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सु०३ मदुकश्रमणोपासक चरितनिरूपणम् १०९
समद्रुकः श्रमणोपासकः तान् अन्ययूथिकानेवमवादीत् अस्ति खलु आयुष्मन्तः । वायुका वाति ? हन्त ! अस्ति, यूयं खल्ल आयुष्मन्तः ! वायुकायस्य वहतो रूपं पश्यत ? नायमर्थः समर्थः ! सन्ति खलु आयुष्मन्तः । घ्राणसहगताः पुद्गलाः ? हन्त ! सन्ति । यूयं खलु आयुष्मन्तः ! घ्राणसहगतानां पुद्गलानां रूपं पश्यथ? नायमर्थः समर्थः । अस्ति खलु आयुष्मन्तः ! अरणिसहगतोऽग्निकायः ? हन्त ? अस्ति, यूयं खलु आयुष्मन्तः ? अरणिसहगतस्याग्निकायस्य रूपं पश्पथ १ नायमर्थः समर्थः । सन्ति खलु आयुष्मन्तः ? समुद्रस्य पारगतानि रूपाणि ? हन्त ! सन्ति, यूयं खलु आयुष्मन्तः ? समुद्रस्य पारगतानि रूपाणि पश्यथ ? नायमर्थः समर्थः । सन्ति खलु आयुष्मन्तः ? देवलोकगतानि रूपाणि ? हन्त ! सन्ति, यूयं खलु आयुष्मन्तः ? देवलोकगतानि रूपाणि पश्यत ? नायमर्थः समर्थः । एवमेव आयुमन्तः । अहं वा यूयं वा अन्यो वा छद्मस्थो यदि यो यत् न जानाति, न पश्यति तत् सर्व" न भवति ? एवं युष्माकं मते सुबहुको लोको न भविष्यति ? इति कृत्वा तान् खलु अन्ययूथिकान् एवं प्रतिहन्ति एवं प्रतिहत्य यत्रेव गुणशिलकं चैत्यं यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपागच्छति, उपागत्य श्रमण भगवन्तं महावीर पञ्चविधेन अभिगमेन यावत् पर्युपास्ते । मनुकः इति श्रमणो भगवान् महावीरो मदुकं श्रमणोपासकमेवम् अवादीत् सुष्ठु खलु मनुक ! एवं तान् अन्ययूथिकान एवमवादी, साधु खलु महुक ! त्वं तान् अन्ययूथिकान एवमवादीत् यत् खलु मदुक ! अर्थ वा हेतुं वा प्रश्न वा व्याकरणं वा अज्ञातमदृष्टम् अश्रुतममतमविज्ञातं बहुजनमध्ये आख्याति परूपयति यावत् उपदर्शयति स खलु अर्द्दतामाशातनायां वर्तते, अर्हस्प्रज्ञप्तस्य धर्मस्य आशातनायां वर्तते, केवलिनामाशातनायां वर्तते, केवलिपज्ञवस्य धर्मस्याशातनायां वर्तते तत् सुष्ठु खलु स्वं मदुक ! तान् अन्ययूथिकान एवप्रवादीः, साधु खलु त्वमेवमवादीः । ततः खलु मदुकः श्रमणोपासकः श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्टतुष्टः श्रम भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा नात्यासन्ने यावत् पर्युपास्ते । ततः खलु श्रमणो भगवान् महावीरो मदुकाय श्रमणोपासकाय, तस्यै च यावत् परिषत् प्रतिगता । ततः खलु मनुकः श्रमणोपासकः श्रमणस्य भगवतो महावीरस्य यातू निशम्य हृष्टतुष्टः प्रश्नानि व्याकरणानि पृच्छति पृष्ट्वा अर्थान् पर्याददाति । पर्यादाय उत्थया उत्तिष्ठति, उत्थया उत्थाय श्रमण भगवन्तं महावीर वन्दते नमस्यति वन्दित्वा नमस्थित्वा यावत्प्रतिगतः । भदन्त इति भगवान् गौतमः श्रमण भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा एवमवादीत्, प्रभुः खलु भदन्त ! मद्भुकः श्रमणोपासको देवानुप्रियाणामन्ति के यावत् मत्रजितुम् ? नायमर्थः समर्थः । एवं यथैव शङ्खः तथैवारुणाभे यावत् अन्तं करिष्यतीति ॥ सू० ३ ॥
શ્રી ભગવતી સૂત્ર : ૧૩