SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ २०४ भगवती सूत्रे जावइयं तावइयं पिणं जाव महापज्जवसाणा भवति । से जहा वा केइपुरिसे सुकतणहत्थगं जायतेयंसि पक्खिवेज्जा, एवं जहा छट्टसए तहा अयो कवल्लेवि जाव महापज्जवसाणा भवंति से तेणट्टेणं गोयमा ! एवं बुच्चइ जावइयं अन्नगिलाए समणे णिग्गंथे कम्मं निज्जरेइ तं चैव जाव वासकोडाकोडीए वा नोखवयंति। सेवं भंते! सेवं भंते ! जाव विहरइ ॥ सू० १॥ छाया - राजगृहे यावत् एवमवादीत् - यावत्कं खलु मदन्त ! अनग्लायकः श्रमणो निर्ग्रन्थः कर्म निर्जरयति, एतावत्कं कर्म नरकेषु नैरयिकाः खलु वर्षेण वा, वर्षेर्वा वर्षशतेन वा क्षपयन्ति ? नायमर्थः समर्थः । यावटकं खलु भदन्त ! चतुर्थभक्तः श्रमणो निर्ग्रन्थः कर्म निर्जरयति, एतावत्कं कर्म नरकेषु नैरयिकाः वर्षशतेन वा वर्षशतेत्र, वर्षसहस्रेण वा क्षपयन्ति ? नायमर्थः समर्थः । यावत्कं खलु भदन्त ! षष्ठभक्तकः श्रमणो निर्ग्रन्थः कर्म निर्जरयति, तावत्कं कर्म निरयेषु नैरयिकाः वर्षसहस्रेण वा वर्षसहस्रे व वर्षशतसहस्रेण वा क्षप यन्ति ? नायमर्थः समर्थः । यावत्कं खलु भदन्त ! अष्टमभक्तकः श्रमणो निर्ग्रन्थः कर्म निर्जरयति तावत्कं कर्म निरयेषु नैरथिकाः वर्षशतसहस्रेण वा वर्षशतसहस्त्र वर्षकोटया वा क्षपयन्ति ? नायमर्थः समर्थः । यावत्कं खलु भदन्त ! दशममक्तकः श्रमणो निर्ग्रन्थः कर्म निर्जरयति, एतावत्कं कर्म निरयेषु नैरयिकाः वर्षको वा वर्षको टिभिर्वा वर्षकोटीकोटया वा क्षपयन्ति ? नायमर्थः समर्थः । तत् केनार्थेन मदन्त ! एवमुच्यते ? यावत्कमन्न ग्लायकः श्रमणो निर्ग्रन्थः कर्म निर्जरयति, तारकम् कर्म निरयेषु नैरयिकाः, वर्षेण वा वषैव वर्षशतेन वा नो क्षपयन्ति यावत्कं चतुर्थभक्तकः, एवं तदेव पूर्वे भणितमुच्चारयितव्यम् यावत् 1 कोटीको वा नो क्षपयन्ति । गौतम तद्यथा नामकः कश्चित् पुरुषः जीर्णो जराजर्जरितदेहः शिथिलत्वचावलितरङ्गसंपिनद्धगात्रः प्रविरलपरिशटि दिन्तश्रेणिः, उष्णाभिहतः तृष्णाभिहतः आतुरो बुभुक्षितः, दुर्बलः पिपासितः क्लान्तः, एकां मर्ती कोशाम्रगण्डिकां शुरूकां जटिलां ग्रंथिलां चिकणाम् व्यादिग्धाम् अपत्रिकाम् मुण्डेन परशुना अवक्रामेत् ततः खलु स पुरुषो महतो महतः शब्दान् करोति नो महान्ति महान्ति दलानि, अवदारयति एवमेव गौतम | नैरयिकाः खलु पापानि कर्माणि गाढीकृतानि चिक्कणीकृतानि, एवं यथा षष्ठशते यावत् શ્રી ભગવતી સૂત્ર : ૧૨
SR No.006326
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy