________________
७४२
भगवतीसूत्रे करिष्यति । तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी सिंहो नाम अनगारः प्रकृतिभद्रका यावत्-विनीतः, मालुकाकक्षकस्य अद्रसामन्ते षष्ठषष्ठेन अनिक्षिप्तेन, तपाकर्मणा ऊर्ध्वबाहू यावत्विहरति, ततः खलु तस्य सिंहस्य अनगारस्य ध्यानान्तरिकायां वर्तमानस्य अयमेतद्रूपो यावत् समुदपद्यत-एवं खलु मम धर्माचार्यस्य धर्मोपदेशकस्य श्रमणस्य भगवतो महावीरस्य शरीरके विपुलो रोगातङ्कः प्रादुर्भूतः, उज्ज्वलो यावत् छदमस्थ एवं कालं करिष्यति, वदिष्यन्ति च खलु अन्यतीथिका छद्मस्थ एवं कालगतः । अनेन एतद्रूपेण महता मनोमानसिकेन दुःखेन अभिभूतः सन् आतापनभूमितः प्रत्यारोहति, प्रत्यवरुमा यत्रै मालुकाकक्षकः तत्रै उपागच्छति, उपागस्य मालुझाकक्षकम् अन्तः अन्तः अनुपविशति, अनुपविश्य महता महता शब्देन कुहूः कुहूरिति प्ररुदितः आर्याः ! इति श्रमणो भगवान् महावीरः श्रमगान् निग्रन्थान् आमन्त्रयति, आमन्य, एवम-प्रवादीत्-एवं खलु आर्याः ! मम अन्तेवासी सिंहो नाम आगारः प्रकृतिभद्रकः तदेव सर्व भणितव्यम् , यावत् प्ररुदितः तत् गच्छत खलु आर्याः ! यूयं सिंहम् अनगारं शब्दयत, ततः खलु ते श्रपणाः निग्रन्थाः श्रमणेन भगवता महावीरेण एवमुक्ताः सन्तः श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति, बन्दित्वा नमस्थित्वा श्रमणस्य भगवतो महावीरस्य अन्तिकात् शालकोष्ठकान चैत्यात् प्रतिनिष्क्रामति, पतिनिष्क्रम्य यौ। मालुकाकक्ष का यत्रै सिंहः आगारस्तत्रैव उपागच्छन्ति, उपा. गत्य, सिंहम् अनगारम् एवमवादिषुः-सिंह ! धर्माचार्याः शब्दयन्ति । ततः खलु स सिंहोऽनगारः श्रमणः निर्ग्रन्थैः सार्द्धम् मालुकाकक्षकात् प्रतिनिष्क्रामति, पतिनिष्क्रम्य, यत्रैव शालकोष्ठकं चैत्यं यत्रैव श्रमगो भगवान् महावीरस्तत्रैव उपा. गच्छति, उपागत्य श्रमगं भगवन्तं महावीरम् विकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा यावत् पर्युपास्ते । सिंह ! इति श्रमगो भगवान् महावीरः सिंहम् अनगारम् एवम् अादौत्-अभ नूनं तव सिंह ! ध्यानान्तरिकायां वर्तमानस्य अयमेतद्रूषो यावर मरुदितः । अथ नूनं तव सिह ! अर्थः समर्थः ? हन्त, अस्ति, तव नो खलु अहं सिंह ! गोशालस्य मङ्खलिपुत्रस्य तापसेन तेजसा अन्धाविष्टः सन् अनः षण्णां मासानाम् , यावत्कालं करिश्यामि, अहं खलु अन्यानि अर्थ षोडश घर्षागि निनः सुहस्ती विहरिष्यामि, तत् गच्छत, खजु वं सिंह मेण्डिकग्राम नगरं रेवत्याः गृहपल्या: गृहे, तत्र खलु रेवत्याः गाथापल्या मम अर्थाय द्वे कपोतकशरीरे उपसंस्कृते, ताभ्यां नो अर्थः, अस्ति तत् अन्यत् परिवासितम् मारिकृतकम् , कुकुटमांसकम् , तदाहर, एतेन अर्थः । ततः खल स सिंहः
શ્રી ભગવતી સૂત્ર: ૧૧