SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५० १ सू० १९ रेवतीदाननिरूपणम् ७४३ अनगारः श्रमणेन भगवता महावीरेण एवमुक्तः सन हृष्टतुष्टो यावद्- हृदयः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, बन्दित्वा नमस्थित्वा अत्वरितमचपलम् असंभ्रान्तं मुखवस्त्रिका प्रतिलिखति, प्रतिलिख्य यथा गौतम स्वामी यावत्, यत्र श्रमणो भगवान् महावीर स्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्त महावीरं वन्दते, नमस्यति वन्दित्वा नमस्थित्वा श्रमणस्य भगवतो महावीरस्य अन्तिकात् शालकोष्टकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य अत्वरितं यावत्यत्रैव मेण्टिकग्रामं नगरं तत्रैव उपागच्छति, उपागत्य मेण्टिकग्रामं नगरं मध्यमध्येन यत्रैव रेवत्या गाथापत्न्याः गृहम् तत्रैव उपागच्छति, उपागत्य, रेवत्या गाथापल्या ः गृहमनुप्रविष्टः । ततः खलु सा रेवती गाथापत्नी सिंहम् अनगारम् आयन्तं पश्यति, दृष्ट्वा हृष्ट तुष्टः क्षिप्रमेव आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय सिंहम् अनगारं सप्ताष्टपदानि अनुगच्छति, अनुगम्य त्रिःकृत्वः आदक्षिण पदक्षिणं करोति, कृत्वा वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा एवम् अवादीत् संदिशन्तु खलु देवानुप्रियाः । किमागमनप्रयोजनम् ? ततः खलु स सिंहः अनगारो रेवतीं गाथापत्नीम् एवम् अवादीत् एवं खलु स्वम् देवानुप्रिये ! श्रमणस्य भगवतो महावीरस्य अर्थाय द्वे कपोतकशरीरे उपसंस्कृते, ताभ्यां नो अर्थः, अस्ति तव अन्यत् परिवासितम् माजीरकृतकम् कुक्कुटमांसकम् एतद् आहर तेन अर्थः । ततः खलु सा रेवती गाथापत्नी सिंहस् अनगारम् एवम् अवादीत्कीदृशः खलु सिंह ! स ज्ञानी वा तपस्वी वा, येन तत्र एषः अर्थो मम तावद् रहस्यकृतः शीघ्रमाख्यातः, यतः खलु त्वं जानासि ! एवं यथा स्कन्दके यावत्, यतः खलु अहं जानामि । ततः खलु सा रेवती गाथापत्नी सिंहस्य अनगारस्य अन्तिकम् एवमर्थ श्रुत्वा निशम्य हृष्टतुष्टा यत्रैव भक्तगृहं तत्रैव उपागच्छति, उपागत्य पात्रकं मोचयति, मोचयित्वा यंत्रेव सिहोऽनगारस्तत्रैव उपागच्छति, उपागत्य सिंहस्य अनगारस्य प्रतिग्रहके तत् सर्वं समं निःसृजति । ततः खलु तया रेवत्या गाथापल्या तेन द्रव्यशुद्धेन यावद दानेन सिंहोऽनगारः प्रतिळाभितः सन् देवायुष्यं निबद्धं यथा विजयस्य यावद जन्मजीवितफलं रेवत्या गृहपत्न्याः रेवत्या गृहपत्न्याः । ततः खलु स सिंहोsनगारो रेater गाथापल्या गृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य मेण्टिकग्रामं नगरम् मध्यमध्येन निर्गच्छति, निर्गत्य arratantrat यावद् भक्तपानं प्रतिदर्शयति, प्रतिदर्श्य श्रमणस्य भगवतो महावीरस्य पाणौ तत सर्वं समम् निःसृजति । ततः खलु श्रमणो भगवान् महावीरः अमूच्छितो यावत् - अनध्युपपन्नो विलमिव पन्नगभूतेन आत्मना तमाहारं शरीरकोष्ठके प्रक्षिपति । ततः खलु श्रमणस्य भगवतो महावीरस्य तम् आहारम् 9 શ્રી ભગવતી સૂત્ર : ૧૧ 1
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy