SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १६ गोशालकवृत्तान्तनिरूपणम् ६८७ देवौ स्वदते, स खलु आशीविषयतया कर्मपकरोति, यः खलु तौ देवौ नौ स्वदते, तस्य खलु स्वके शरीरके अग्निकायः संभवति, स खलु स्वकेन तेजसा शरीरकं मायति, मायित्वा ततः पश्चात् सिध्यति यावद्-अन्तं करोति, तदेतत् शुद्धपानकम् । तत्र खलु श्रावस्त्यां नगर्याम् अयंपुको नाम आजीविकोपासकः परिवसति, आढयो यावत्-अपरिभूतः, यथा हालाहालायाः यावत्-आजीविकसमयेन आत्मानं भावयन् विहरति । ततः खलु तस्य अयंपुलस्य आजीविकोपासकस्य अन्यदा कदाचित् पूर्वरात्रापररात्रकाळ समये कुटुम्बजागरिकां जाग्रतः अयमेतद्रमः आध्यात्मिको यावत् समुदपद्यत-किं संस्थिता हल्ला प्रज्ञप्ता ? ततः खलु तस्य अयंपुलस्य आजीविकोपासकस्य द्वितीयमपि अयमेतद्रप आध्यात्मिको यावत् समुदपद्यत-एवं खलु मम धर्माचार्यों धर्मोपदेशको गोशालो मङ्ख लेपुत्रः उत्पन्नज्ञानदर्शनधरो यावत् सर्वज्ञः सर्वदर्शी इहैव श्रावस्त्यां नगर्या हालाहलायाः कुम्भकार्याः कुम्भकारापणे आजीविकसंघसंपरितः आजोविकसमयेन आत्मानं भावयन् विहरति, तत् श्रेयः खलु मम कल्ये यावत् ज्वलति गोशालं महलिपुत्र वन्दित्वा यावत् पर्युपास्य एतद्रूपं व्याकरणं व्याकर्तुम् इति कृत्वा एवं सप्रेक्षते, संप्रेक्ष्य कल्ये यावत् ज्वलति स्नातः कृत यावत् अल्पमहार्याभरणालङ्कृतशरीरः स्वस्मात् गृहात् पतिनिष्कामति, पतिनिष्क्रम्य पादविहारचारेण श्रावस्ती नगरीम् मध्यमध्येन यत्रैव हालाहलायाः कुम्भकार्याः कुम्भकारापणं तत्रैव उपागच्छति, उपागत्य गोशालं मङ्खलिपुत्र हालाहलायाः कुम्भकार्याः कुम्भकारापणे आम्रकूणकहस्तगतं यावत् अञ्जलिकर्म कुर्वाणं शीतलकेन मृत्तिका यावत् गात्राणि परिषिश्चन्तं पश्यति, दृष्ट्वा लज्जितः, वश्लीकितः, बीडः शनैः शनैः प्रत्यवष्वष्कते, ततः खलु ते आजीविकाः स्थविराः अयंपुलम् आजीविकोपासक लज्जितं यावत् प्रत्यवष्यरुकमानं पश्यन्ति, दृष्ट्वा एवम्-अवादिषुः-एहि तावत् अयंपुल ! अत्र, ततः खलु सः अयंपुलः आजोविकोपासका आजीविकस्थविरैः एवमुक्तः सन् यत्रैव आजीविकाः स्थविरा स्तत्रैव उपागच्छति, उपागत्य आजीविकान् स्थवि. रान् वन्दते, नमस्यति, वन्दित्वा, नमस्थित्वा नात्यासन्ने यावत् पर्युपास्ते, अयं. पुल! इति आजीविकाः स्थविराः, अयंपुलम् आजीविकोपासकम् एवम् अवादीषु:अथ नूनं तव अयंपुल ! पूर्वरात्रापररात्रकालसमये यावत् किं संस्थिता हल्ला प्रज्ञप्ता? ततः खलु तव अयंपुल ! द्वितीयमपि अयमेतद्रूप स्तदेव सर्वम् भणित. व्यम् , यावत्-श्रावस्ती नगरी मध्यमध्येन यत्रै हालाहलायाः कुम्भकार्याः कुम्भकारापणं यत्रैव इह तत्रैव शीघ्रमागतः, तत् नूनं तव अयंपुल ! अर्थः समर्थः? हन्त, अस्ति, योऽपि च अयं पुल ! तब धर्माचार्यः, धर्मोपदेश को गोशलो मङ्खलि શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy