SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे अङ्गानाम् १, वङ्गानाम् २,, मगधानाम् ३, मलयानाम् ४, मालकानाम् ५, अच्छानाम् ६, वत्सानाम् ७, कौत्सानाम् ८, पटानाम् ९, लाटानाम् १०, वज्रा. णाम् ११ मौलीनाम् १२, काशीनाम् १३, कोशलानाम् १४, अाधानाम् १५, मुंभुतराणाम् १६, घाताय-उधाय उच्छादनतायै, भस्मकरणार्थतायै यदपि च आर्याः ! गोशालो मंखलिपुत्रो हालाहलायाः कुम्भकार्याः कुम्भकारापणे आम्र. कूणकहस्तगतो मधपानं पिबन् अभीक्ष्णम् यावत् अञ्जलिकर्म कुर्वन् विहरति, तस्यापि च खलु वज्रस्य वा प्रच्छादनार्थतायें इमानि अष्ट चरमाणि प्रज्ञापयति, तद्यथा-चरमं पानम् चरमं गीतम् , चरमं नृत्यम्, चरमम् अञ्जलिकर्म, चरमः पुष्करसंवतको महामेघः, चरमः सेचनको गन्धहस्ती, चरमो महाशिलाकण्टकः संग्रामः, अहं च खलु अस्याः उत्सपिण्याः चतुर्विशते स्तीर्थकराणामेव, चरमस्तीर्थकरः सेत्स्यामि, यावत्-अन्तं करिष्यामि, यदपि च आर्याः ! गोशालो मंखलिपुत्रः शीतलेन, मृत्तिकापानीयेन आतश्चनिकोदकेन गात्राणि परिषिश्चन् विहरति तस्यापि च खलु वनस्य प्रच्छादनार्थतायै इमानि चत्वारि पानकानि चत्वारि अपानकानि प्रज्ञापयति अथ किं तत् पानम् ? पानं चतुर्विधं प्रज्ञप्तम् , तद्यथा-गोपृष्ठकम् , हस्तमर्दितम् , आतपतापितम् , शिलाप्रभ्रष्टकम् तदेतत् पानकम् । अथ किम् तत् अपानकम् ? अपानकं चतुर्विध प्रज्ञप्तम् , तद्यथा-स्थालपानकम् , स्वपानकम् , सिम्बली पानकम् , शुद्धपानकम् , अथ किम् तत् स्थालपानकम् ?, स्थालपानकं यत् खलु उदकस्थालक वा, उदकवारकं वा, उदककुम्भकं वा, उदककलशं वा, शीतलकं वा, आद्रक हस्तः परामृशति न च पानीयं पिवति, तदेतत् स्थालमानकम् । अथ किं तत् त्वान कम् ? त्वक्षानकं यत् खलु आनं वा, आम्रतिकं वा, यथा प्रयोगपदे यावत्बदरं वा, तिन्दुरुकं वा, तरुगकं वा, आमकं वा, आस्य के आपीड येद् वा, प्रपीडयेद् वा, न च पानीयं पिवति, तदेतत् त्वयानकम् , अथ किं तत् सिम्बलिपानकम् , सिम्बलिगनकम् यत् खलु कलायसिम्बली वा, मुगलसिम्बली वा, माषसिम्बली वा, शिम्बलीसिम्बौं वा, तरुणिकाम् आमिकाम् आस्य के आपीडयेद् वा, प्रपीडयेद् वा, न च पानीयं पिबति, तदेतत् सिम्बलीपानकम् । अथ कि तत् शुद्धपानकम् ? शुद्धपानकं यत् खलु षण्मासान् शुद्ध खादिमं खादति, द्वौ मासो पृथिवीसंस्तारकोपगतश्च द्वौ मासौ काष्ठसंस्तारको रगतो, द्वौ मासौ दर्भसंस्तार कोपगतः, तस्य खलु बहुपतिपूर्णानां षण्णां मासानाम् अन्तिमरात्रौ इमौ द्वौ देवी महद्धिको यावद् महासौख्यो अन्तिकं प्रादुर्भातः, तौ यथा-पूर्णभद्रश्च, मणिभद्रश्च, ततः खलु तौ देवौ शीतलकै आर्द्रकै हस्तः गात्राणि परामृशतः, यः खलु तो શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy