________________
प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० १२ गोशालकवृत्तान्तनिरूपणम् ६०९ त्वा षष्ठे संज्ञिगर्भ जीवः प्रत्यायाति स खलु तेभ्योऽनन्तरम् उद्धृत्य-ब्रह्मलोकोनाम स कल्पः प्रज्ञप्तः, प्राची प्रतीच्यायतः, उदीची दक्षिणविस्तीर्णः, यथा स्थानपदे यावत् पञ्च अवतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसको यावत्-पतिरूपाः, स खलु तत्र देव उपपद्यते, स खलु तत्र दशसागरोपमान् दिव्यान् भोग यावत त्यक्त्वा सप्तमे संज्ञिगर्भे जीवः प्रत्यायाति, स खलु तत्र नवानां मासानां बहुपतिपूर्णानाम् अष्टिमानां यावत् व्यतिक्रान्तानाम् सुकुमारकमद्रलको मृदुकुण्डलकुञ्चित केशको मृष्ट गण्डतलकर्णपीठको देवकुमारसमप्पभो, दारकः प्रजायते, स खलु अहं काश्यप ! तेन अहम् आयुष्मन् ! काश्यप ! कौमारिकपत्रज्यायां कौमारिकेण ब्रह्मचर्यचासेन अविद्धकर्णक एव संख्यानं प्रतिलभे, प्रतिलभ्य इमान् सप्त प्रवृत्तिपरिहारान् परिहरामि, तद्यथा-एणेयकस्य १, मल्लरामस्य, मण्डिकस्य ३, रोहस्य ४, भारद्वाजस्य २, अर्जुनस्य गौतमपुत्रस्य ६, गोशालस्य मङ्खलि. पुत्रस्य ७, तत्र खलु योऽसौ प्रथमः प्रवृत्तिपरिहारः, स खलु राजगृहस्य नगरस्य बहिः मण्डिककुक्षौ चैत्ये उदायिनः कौण्डिन्यायनस्य शरीरं विप्पजहामि, विप्र. हाय एणेयकस्य शरीरका अनुपविशामि, अनुपविश्य द्वाविंशतिवर्षाणि प्रथम प्रवृत्तिपरिहारं परिहरामि, तत्र खलु योऽसौ द्वितीयः प्रवृत्तिपरिहारः स उद्दण्ड पुरस्य नगरस्य बहिश्चन्द्रावतरणे चैत्ये एणेयकस्य शरीरकं विप्रजहामि, विमहाय मल्लरामस्य शरीरकम् अनुपविशामि, अनुपविश्य एकविंशतिवर्षाणि द्वितीयं प्रवृत्तिपरिहारं परिहरामि, तत्र खलु योऽसौ तृतीयः प्रवृत्तिपरिहारः स खलु चम्पाया नगर्या बहिः अङ्गमन्दिरे चैत्ये मल्लरामस्य शरीरकं विपजहामि, विष. हाय मण्डिकस्य शरीरकं अनुप्रविशामि, अनुपविश्य विंशतिवर्षाणि तृतीयं प्रवृत्ति परिहारं परिहरामि, तत्र खलु योऽसौ चतुर्थः प्रवृत्तिपरिहारः स खलु वाराणस्याः नगर्याः बहिः काममहावने चैत्ये मण्डिकस्य शरीरकं विप्रजहामि, विप्रहाय, रोहस्य शरीरकम् अनुप्रविशामि, अनुमविश्य एकोनविंशति वर्षाणि च चतुर्थ प्रवृत्तिपरिहारं परिहरामि, तत्र खलु योऽसौ पश्चममवृत्तिपरिहारः स खलु आलम्भिकाया नगर्याः बहिः प्राप्तकालगते चैत्ये रोहस्य शरीरं विभजहामि, विप्रहाय भारद्वाजिनः शरीरकम् अनुपविशामि, अनुमविश्य अष्टादशवर्षाणि पञ्चमं प्रवृत्तिपरिहारम् परिहरामि, तत्र खलु योऽसौ षष्ठः प्रवृत्तिपरिहारः स वैशाल्या नगर्याः बहिः कुण्डिकायने चैत्ये भारद्वाजिकस्य शरीरं विप्रजहामि, विमहाय अर्जुनकस्य गौतमपुत्रस्य शरीरकम् अनुमविशामि, अनुपविश्य सप्तदश वर्षाणि षष्ठं प्रवृत्तिपरिहारं परिहरामि, तत्र खलु योऽसौ सप्तमः प्रवृत्तिपरिहारः स खलु इहैव श्रावस्त्याम् नगर्याम्, हालाहलायाः कुम्भकार्याः कुम्भकारापणे
भ० ७७
શ્રી ભગવતી સૂત્ર: ૧૧