________________
भगवतीसूत्रे हरामि, येऽपि 'आई' आयुष्मन् ! काश्यप ! अस्माकं समये केपि असिध्यन् वा, सिध्यन्ति वा, सेत्स्यन्ति वा, सर्वेते चतुरशीतिं महाकल्पशतसहस्राणि सप्तदिव्यानि, सप्तसंयूथानि, सप्तसंज्ञिगर्भान् सप्तप्रवृत्तिपरिहारान् पंचकर्माणि शतसहस्राणि षष्टि च सहस्राणि, षट् च शतानि त्रीणि च कर्माणि आनुपूर्येण क्षपयित्वा ततः पश्चात् सिध्यन्ति बुध्यन्ते मुच्यन्ते, परिनिर्वान्ति सर्वदुःखनामन्तम् अकुर्वन् वा, कुर्वन्ति वा, करिष्यन्ति वा, तद् यथा वा गङ्गामहानदी यतः पत्ता, यत्र वा पर्युपस्थिता, एष खलु अध्वा पञ्चयोजनशतानि आयामेन, अर्द्धयोजनं विष्कम्भेण, पञ्चधनुः शतानि उद्वेधेन एतेन गङ्गाप्रमाणेन सप्तगङ्गाः सा एका महागङ्गा, सप्त महागङ्गा सा एका सादीनगङ्गा, सप्तसादीनगङ्गा सा एका मृत्युगङ्गा, सप्त मृत्युगङ्गाः सा एका लोहितगङ्गा, सप्त लोहितगङ्गाः सा एका आवन्ती गङ्गा, सप्त आवन्तीगङ्गाः सा एका परमावन्ती गङ्गा, एवमेव सपूर्वापरेण एकं गङ्गाशतसहस्रम् सप्तदशसहस्राणि षटू च एकोनपञ्चाशद् गङ्गाशतानि भवन्तीति आख्याताः, तासां द्विविधः उद्धारः प्रज्ञप्तः, तयथा-सूक्ष्मबोन्दिकलेवरं चैव, बादरबोन्दिकलेवरं चैव, तत्र खलु यत् तत् सूक्ष्मबोन्दिकलेवरं तत् स्थाप्यम्, तत्र खलु यत् तत् बादरबोन्दिकलेवरं ततः खलु वर्षशते वर्षशते गते गते एकैको गावालुकाम् अपहार्य याक्ता कालेन स कोष्ठः क्षीणो नीरजाः, निलेपो निष्ठितो भवति, तदेव तत् सरासरःप्रमाणम्, एतेन सरप्रमाणेन त्रीणि सरः शतसहस्राणि स एको महाकल्पः चतुरशीतिः महाकल्पशतसहस्राणि तत् एकं महामानसम् , अनन्तात संयथात् जीवश्चयं त्यक्त्वा उपरितने मानसे संयूथे देवे उपपद्यते, स खलु तत्र दिव्यान भोगभोगान् भुझानो विहरति, विहत्य तस्माद्देवलोकात् आयु: क्षयेण भवक्षयेण, स्थितिक्षयेण अनन्तरं चयं त्यक्त्वा प्रथमे संज्ञिगर्भ जीवः प्रत्यायाति, स खलु तेभ्योऽनन्तरम् उत्त्य मध्यमे मानसे संयूथे देव उपपद्यते, स खल तत्र दिव्यान् भोगभोगान् यावत्-विद्वत्य, तस्मादेवलोकाद् आयुः क्षयेण, भवक्षयेण, स्थितिक्षयेण, यावत् त्यक्त्वा द्वितीये संज्ञिगर्भ जीवः प्रत्यायाति, स खल तेभ्योऽनन्तरम् उदृत्य अधस्तने मानसे संयूथे देव उपपद्यते, स खलु तत्र दिव्यान् यावत् व्युत्वा तृतीये संज्ञिगर्भ जी प्रत्यायाति, स खलु तेभ्यो यावत उदृत्य उपरितने मानसोत्तरे संयूथे देव उपपत्स्यते, स खलु तत्र दिव्यान् भोग यावर च्युत्वा चतुर्थे संज्ञिगर्भ जीवः प्रत्यायाति, स खलु तेभ्योऽनन्तरम् उदवृत्त्य मध्यमे मानसोत्तरे संयूथे देवउपपद्यते, स खलु तत्र दिव्यान भोग यावत त्यक्त्वा पञ्चमे संज्ञिगर्भ जीवः प्रत्यायाति, स खलु तेभ्योऽनन्तरम् उदृत्य अधस्तने मानसोत्तरे संयूथे देवउपपद्यते स खलु तत्र दिव्यान् भोग यावत् त्या
શ્રી ભગવતી સૂત્ર: ૧૧