SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५५८ भगवतीसूत्रे घोषम् अनाकलितचण्डतीव्ररोषम् श्वमुखम् त्वरितं चपलं धमन्तं दृष्टिविषं सर्प संघटयन्ति । ततः खलु स दृष्टिविषः सर्पस्तैणिग्भिः संघटितः सन् आशुरक्तो यावत् मिषमिवायमाणः शनैः शनैः उत्तिष्ठति, उत्थाय सरसरसरस्य वल्मीकस्य शिखरतलमारोहति, शिखरत समारुह्य आदित्यं निायति, आदित्यं निलय तान् वणिजः अनिमेषया दृष्टया सर्वतः समन्तात् समभिलोकयति । ततः खलु ते वणिजस्तेन दृष्टिविषेण सर्पण अनिमेषया दृष्टया सर्वतः समन्तात् समभिलोकिताः सन्तः क्षिपमेव सभाण्डमात्रोपकरणकाः एकाहत्यम् कूटाहत्यम् भस्मराशीकृताश्चाप्यभवन् । तत्र खलु योऽसौ वणिक् तेषां वणिजाम् हितकामको यावत् हितसुखनिःश्रेयसकामकः, स खलु आनुकम्पिकया देवतया सभाण्डमात्रोपकरणमादाय निजकं नगरं साधितः । एवमेव आनन्द ! तवापि धर्माचार्येण धर्मोपदेशकेन श्रमणेन ज्ञातपुत्रेण उदारः पर्यायः, आप्तादितः, उदारः कीर्तिवर्णशब्दश्लोकाः सदेवमनुष्यासुरे लोके प्लव्यन्ते, गुप्यन्ते, स्तूयन्ते, इति खलु श्रमणो भगवान् महावीरः इति खलु श्रमणो भगवान महावीरः, तद् यदि मम स अद्य किञ्चिदपि वदति तदा खलु तपसा तेजसा एकाहत्यम् कूटाहत्यम् भस्मराशिं करोमि, यथैव व्यालेन ते वणिजः । त्वाश्च खलु आनन्द ! संरक्षानि, संयोगयामि, यथा वा स वणिग् तेषां वणिजाम हितकामको यावत् निःश्रेयस. कामकः, अनुकम्पिकया देवतया समाण्डमात्रोपकरणो यावत् साधितः, तत् गच्छ खलु वम् आनन्द ! तर धर्माचार्यस्य धर्मोपदेशकस्य श्रमणस्य ज्ञातपुत्रस्य एवं मर्थम् परिकथय ! ततः खलु स आनन्दः स्थविरो गोशालेन मङ्खलिपुत्रेण एवमुक्तः सन् भीतो यावत् संजातमयः, गोशालकस्य मङ्खलिपुत्रस्य अन्तिकात् हालाहलायाः कुम्भकार्याः, कुम्भकारापणात्-प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य शीघ्रं त्वरितम् , श्रावस्ती नगरीम् मध्यमध्येन निर्गच्छति, निर्गत्य यौव कोष्ठ चैत्यम् , यत्रैव श्रमणो भगवान् महावीरस्तत्रव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरम् विकृत्वः आदक्षिणमदक्षिणं करोति, कृत्वा वन्दते नमस्पति, वन्दित्वा नमस्यित्वा एवम् आदीत्-एवं खलु अहं भदन्त ! पष्ठक्षपणपारणके युष्माभिरभ्यनुज्ञातः सन् श्रावस्त्या नगर्या: उच्चनीच यावद् अटन हालाहलायाः कुम्भकार्याः यावद् व्यतिव्रजामि, ततः खलु गोशाको मङ्खलिपुत्रो मां हालाहलाया यावद् दृष्ट्वा एवम् अवादीतू-एहि तावद् आनन्द ! इत: एक महद् औपम्यम् निशामय, ततः खलु अहं गोशालेन मङ्खलिपुत्रेण एवमुक्तः सन् यत्रैव हालाहालायाः कुम्भकार्या कुम्भकारापणः यत्रैव गोशालो मङ्खलिपुत्रस्तत्रा उपागच्छामि, ततः खलु स गोशालो मङ्खलिपुत्रो माम् एवमयादीव एवं खलु आनन्द ! इतश्चिरातावायाम् अद्धा. શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy