SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ " , प्रमेयचन्द्रिका टीका श० १५ उ० १ सू० ९ गोशालकवृत्तान्तनिरूपणम् ५५७ कस्य द्वितीयमपि वप्रं भेत्तुम् अपि चापि यस्मात् अत्र उदारं सुवर्णरत्नम् असादयिष्यामः । ततः खलु ते वणिजः अन्योन्यस्य अन्तिकम् एतमर्थं प्रतिशृण्वन्ति, प्रविश्रुत्य तस्य वल्मीकस्प द्वितीयमपि वप्रं भिन्दन्ति ते खलु तत्र अच्छम् जात्यम् तपनीयम् महार्थम् महार्घम् महार्हम् उदारम् सुवर्णरत्नम् आसादयन्ति ततः खलु ते वणिजः हृष्टतुष्टाः भाजनानि भरन्ति, भाजनानि भृत्वा प्रवहणानि भरन्ति, प्रवणानि भृत्वा तृपमपि अन्योन्यम् एवम् अवादिपुः- एवं खलु देवानुप्रियाः ! अस्माभिः अस्य वल्मीकस्य प्रथमे वप्रे भिन्ने, उदारम् उदकरत्नम् आसादितम्, द्वितीय भिन्ने उदारम् सुवर्णरत्नम् आसादितम् तत् श्रेयः खलु देवानुभियाः अस्माकम् अस्य वल्मीकस्य तृतीयमपि वमं भेत्तुम् अपि चापि यस्मात् अत्र उदारम् मणिरत्नम् आसादयिष्यामः, ततः खलु ते वणिजः अन्योन्यस्य अन्तिकम् एतमर्थम् प्रतिशृण्वन्ति, प्रतिश्रुत्य तस्य वल्मीकस्य तृतीयमपि वयं भिन्दन्ति, ते खलु तत्र विमलं निर्मलम् निस्तलम् निष्कलम् महार्थम्, महार्घम्, महार्हम्, उदारम् मणिरत्नम् आसादयन्ति । ततः खलु ते वणिजो हृष्टतुष्टाः भाजनानि भरन्ति भृत्वा प्रवहणानि भरन्ति भृत्वा चतुर्थमपि अन्योन्यम् एवम् अवादिषुःएवं खलु देवानुप्रियाः ! अस्माभिः अस्य वल्मीकस्य प्रथमे वत्रे भिन्ने उदारम् उदकरत्नम् आसादितम्, द्वितीये व भिन्ने उदारम् सुवर्णरत्नम् आसादितम्, तृतीये व भिन्ने उदारम् मणिरत्नम् आसादितम्, तत् श्रेयः खलु देवानुप्रियाः । अस्माकम् अस्य वल्मीकस्य चतुर्थमपि वयं भेतुम् अपि चापि यस्मात् उत्तमं महार्थम् महाईम् उदारम् वज्ररत्नम् आसादयिष्यामः । ततः खलु तेषां वणिजाम् estafa हितकामकः, सुखकामकः, पथ्यकामकः, आनुकम्पिकः, नैत्रेयसिकः, हितसुखनिः श्रेयस कामकस्तान वणिजः एवम् अत्रादीत् - एवं खलु देवानुमियाः ! अस्माभिः अस्य वल्मीकस्य प्रथमे वत्रे भिन्ने उदारम् उदकरत्नं यावत् तृतीये वर्षे भिन्ने उदारम् मणिरत्नम् असादितम् तद्भवतु अलं पर्याप्तम् एतत् चतुर्थी मा भिन्दन्तु चतुर्थ नो (नोऽस्माकम् ) व सोपसर्गं चापि भवेत् । ततः खलु वणिस्तस्य वणिजो हितकामकस्य सुखकामकस्य यावत्-हितसुखनिःश्रेयसकाaner rat marrat यावत् प्ररूपयतः एतमर्थम् नो श्रद्धधति यावद् नो रोचयन्ति एतमर्थम् अश्रतो यावद् अरोचयन्तस्तस्य वल्मीकस्य चतुर्थमपि वप्रं भिन्दन्ति, ते खलु तत्र उग्रविषम्, चण्डविषम्, घोर विषम्, महाविषम्, अतिकायमहाकायम् मषीमूपाकालकम्, नयनविपरोषपूर्णम् अञ्जनपुञ्ज निकरप्रका शम्, रक्ताक्षम्, यमळयुगल चश्चलचलज्जिह्वम् धरणीतल वेणिकभूतम् उत्कटस्फुटकुटिलचटुलकर्कश विकटकटाटोपकरणदक्षम्, लोहाकरध्मायमानधमधमायमान , " 3 1 શ્રી ભગવતી સૂત્ર : ૧૧ -
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy