SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे अर्थपिपासवः, अर्थगवेषणार्थतायै नानाविधविपुलमणितभाण्डमादाय शकटी शाकटेन सुबहुभक्तपानं पथ्यदनं गृहीत्वा एकाम् महतीम् अग्रामिकाम्-अनोधिकाम् , छिन्नापाताम् , दीर्घावनीम् अटवीम् अनुपविष्टाः ततः खलु तेषां वणिजा तस्याम् अग्रामिकायाम् , अनोधिकायाम् छिन्नापातायाम्, दीर्घाध्वन्याम् अटव्यां कश्चिदेशम् अनुमाप्तानां सतां तत्पूर्वगृहीतम् उदकम् आनुपूर्येण परिभुज्यमानं क्षीणम् , ततः खलु ते वणिनः क्षीणोदकाः सन्तस्तृपया परिभूयमानाः अन्योन्यं शब्दयन्ति, शब्दयित्वा एवमवादिषुः-एवं खलु देवानुप्रियाः ! अस्माकम् अस्याम् अग्रामिकायां यावद् अटव्यां किञ्चिदेशम् अनुमाप्तानां सताम् तत्पूर्वगृही. तम् उदकम् आनुपूव्येण परिभुज्यमानं परिभुज्यमानं क्षीणम् , तत् श्रेयः खलु देवानुप्रियाः ! अस्माकम् अस्याम् अग्रामिकायां यावद् अटव्याम् उदकस्य सर्वतः समन्ताद् मार्गणगवेषणं कर्तुमिति कृत्वा अन्योन्यस्य अन्तिके एतमर्थम् पतिशृण्वन्ति, प्रतिश्रुत्य तस्यां खलु अग्रामिकायां यावत् अटव्याम् उदकस्य सर्वतः समन्तात् मार्गणगवेषणं कुर्वन्ति, उदकस्य सर्वतः समन्ताद मागणगवेषणं कुर्वन्तः, एकं महद् वनखण्डम् आसादयन्ति कृष्णं कृष्णावभासं यावद् निकुरम्बभूतं मासा. दीयं यावत्पतिरूपम् , तस्य खलु वनखण्डस्य बहुमध्यदेशभागे, अत्र खलु महान्तमेकं वल्मीकम् आसादयन्ति, तस्य खलु वल्मीकस्य चत्वारो वप्राः अभ्युद्गताः, अभिनिःसटाः तिर्यक् सुसंमगृहीताः अधः पन्नगार्द्धरूपाः, पन्नगार्द्धसंस्थानसंस्थिताः मासादीयाः यावत् प्रतिरूपाः, ततः खलु ते वणिजो हृष्टतुष्टाः अन्योन्यम् शब्दयन्ति, शब्दयित्वा एवम् आदिषुः-एवं खलु देवानुपियाः ! अस्माभिः अस्याम् अग्रामिकायां यावत् सर्वतः समन्ताद् मार्गणगवेषणं कुर्वद्भिरिदं वनखण्डम् आसादितम् , कृष्णं कृष्णावमासम् , एतस्य खलु वनखण्डस्य बहुमध्यदेशमागे इदं वल्मीकम् असादितम् , अस्य खलु वल्मीकस्य चत्वारो वमा अभ्युद्गताः यावत् प्रतिरूपाः, तत् श्रेयः खलु देवानुप्रियाः ! अस्माकमस्य वल्मीकस्य प्रथमं वर्ष भेत्तुम् , अपि चापि यस्माद् उदारम् उदकरत्नम् आसादयिष्यामः । ततः खलु ते वणिजः अन्योन्यस्य अन्तिकम् एतमर्थ प्रतिशृण्वन्ति, अन्योन्यस्य अन्तिकम् एतमर्थ प्रतिश्रुत्य तस्य वल्मीकस्य प्रथमं वमं भिन्दन्ति, ते खलं तत्र अच्छं पथ्यम् जात्यम् , तनुकम् स्फटिक पर्णा मम् , उदारम् उदकरत्नम् आसादयन्ति, ततः खलु ते वणिजो हृष्टतुष्टाः, पानीयम् पिबन्ति, पीत्वा वाहनानि पाययन्ति, पाययित्वा भाजनानि भरन्ति, भृत्वा द्वितीयमपि अन्योन्यम् एवम् अवादिषुःएवं खलु देवानुमियाः ! अस्माभिः अस्य वल्मीकस्य प्रथमे व मिन्ने उदारम् उदकरत्नम् आसादितम् , तत् श्रेयः खलु देवानुपियाः ! अस्माकम् अस्य वल्मी શ્રી ભગવતી સૂત્ર: ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy