________________
४२०
भगवतीसूत्रे
__छाया-" केवली खलु भदन्त ! छमस्थं जानाति, पश्यति ? हन्त, जानाति, पश्यति, यथा खलु भदन्त ! केवली छद्मस्थं जानाति, पश्यति' तथा खलु सिद्धोऽपि छमस्थं जानाति, पश्यति ? हन्त, जानाति, पश्यति, केवली खलु भदन्त ! आधोवधिकं जानाति, पश्यति ? एवं चैव, एवं परमावधिकम् , एवं केवलिनम् , एवं सिद्धम् , यावत् , यथा खलु भदन्त ! केवली सिद्धं जानाति, पश्यति, तथा खलु सिद्धोऽपि सिद्धं जानाति, पश्यति ? हन्त, जानाति, पश्यति, केवली खलु भदन्त ! भाषेत घा, व्याकुर्याद् वा ? हन्त, भाषेत वा, व्याकुर्याद् वा, यथा खलु भदन्त ! केवली भाषेत वा, व्याकुर्यादू वा ? तथा खलु सिद्धोऽपि भाषेत वा, व्याकुर्याद् वा? नायमर्थः समर्थः, तत् केनार्थेन भदन्त ! एवमुच्यतेयथा खलु केवली भाषेत वा, व्याकुर्याद् वा, नो तथा खलु सिद्धो भाषेत वा, ब्याकुर्याद् वा ? गौतम ! केवली खलु सोस्थानः सकर्मा; सबलः सवीर्यः, सपु रुषकारपराक्रमः, सिद्धः खलु अनुत्थानो यावत्-अपुरुषकारपराक्रमः, तत्तेनार्थेन यावत्-व्याकुर्याद वा, केवली खलु भान्त ! उन्मिषेद् वा, निमिषेद् वा ? हन्त, उन्मिषेद् वा, निमिषेद् वा, एवमेव, एवम् आकुश्चेद् वा, प्रसारयेद् वा, एवं स्थानं वा, शय्यां वा, नषेधिकी वा, श्वेतयेत् (कुर्यात) केवली खलु भदन्त ! इमां रत्नप्रभा पृथिवीं रत्नप्रभापृथिवीति जानाति, पश्यति ? हन्त, जानाति, पश्यति, यथा खलु भदन्त ! केवली इमां रत्नप्रभा पृथिवीं रत्नपभापृथिवीति जानाति, पश्यति, तथा खल सिद्धोऽपि इमां रत्नप्रभां पृथिवीं रत्नप्रभापृथिवीति जानाति पश्यति ? हन्त ! जानाति, पश्यति, केवली खलु भदन्त ! शर्कराप्रभां पृथिवीं शर्करामभापृथिवीति जानाति, पश्यति ? एवञ्चेव, एवं यावत्-अधः सप्तम्याम्, केवली खलु भदन्त ! सौधर्म कल्पं सौधर्मकल्प इति जानाति, पश्यति ? हंत जानाति, पश्यति, एवञ्चैव, एवं ईशानम् , एवं यावत्-अच्युतम् , केवली खलु अवेयकविमानं ग्रैवेयकविमान इति जानाति, पश्यति ? एवञ्चैव, एवम् अनुसरविमानमपि, केवली खलु भदन्त ! ईषत्माग्मारा पृथिवीम् ईषत्प्राग्भारा पृथिवीति जानाति पश्यति ? एवञ्चव, केवली खलु भवन्त ! परमाणुपुद्गलं परमाणुपुद्गल इति जानाति, पश्यति ? एवंचैव, एवं द्विपदेशिकं स्कन्धम् , एवं यावत् यथा खलु भदन्त ! केवली अनन्तप्रदेशिकं स्कन्धम् अनन्तमदेशिकस्कन्ध इति जानाति, पश्यति, तथा खलु सिद्धोऽपि अनन्तप्रदेशिकं यावत्-पश्यति ? हन्त, जानाति, पश्यति, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ सू० १॥
॥ चतुर्दशशतकं समाप्तम् ।।
શ્રી ભગવતી સૂત્ર: ૧૧