SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २३ " प्रमेयचन्द्रिका टीका श० १३ उ० ६ सू० ३ उदायनराजचरितनिरूपणम् उदानयस्य राज्ञः पूर्वरात्रापररात्रकालसमये धर्मजागरिकां जाग्रतः अयमेतद्रूपः आध्यात्मिको यावत् समुदपद्यत - धन्याः खलु ते ग्रामाकरनगरक्षेत्र कर्बटमडम्ब - द्रोणमुख पट्टनाश्रमसवाह संनिवेशा:, यत्र खल श्रमणो भगवान् महावीरो विहरन्ति, धन्याः खलु ते राजेश्वरतलवर यावत् सार्थवाहप्रभृतयो, ये खलु श्रमणं भगवन्तं महावीरं वन्दन्ते, नमस्यन्ति यावत् पर्युपासते यदा खलु श्रमणो भगवान् महावीरः पूर्वी चरन् ग्रामानुग्रामं यावत् विहरन् इहागच्छेत्, इहलमवसरेत्, sa araarer नगरस्य वहिर्मृगवने उद्याने यथामतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा यावत् विहरेत् तदा खलु अहं श्रमणं भगवन्तं महावीरं वन्देय, नमस्येयम्, यावत् पर्युपासीय । ततः खलु श्रमणो भगवान् महावीरः उदानयस्य राज्ञः इदमेषम् आध्यात्मिकं यावत् समुत्पन्नं विज्ञाय चम्पायाः नगर्याः पूर्ण. भद्रात् चैत्यात् प्रतिनिष्काम्यति, प्रतिनिष्क्रम्य पूर्वानुपूर्वीम् चरन् ग्रामानुग्रामं यावत् विहरन, यत्रैव सिन्धुसौवीरो जनपदः, यत्रैच वीतिभयं नगरं, यत्रैत्र मृगवनम् उद्यानं तत्रैवोपागच्छति, उपागत्य यावत् विहरति । ततः खलु वीतिभये नगरे शृङ्गाटक यावत् पर्षत् पर्युपास्ते । ततः खलु स उदायनो राजा अस्याः कथायाः लब्बार्थः सन् हृष्टः कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत् क्षिमेव भो देवानुप्रियाः । वीतिभयं नगरं साभ्यन्तरबाह्यं यथा कुणिकः औपपातिके यावत् पर्युपास्ते, प्रभावती प्रमुखा देव्यस्तथैव यावत् पर्युपासते । धर्मकथा ततः खलु स उदायनो राजा श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म वा निशम्य हृष्टपुष्टः उत्थया उतिष्ठति, उत्थाय श्रमण भगवन्तं महावीरं त्रिः कृत्वो यावत् नमस्थित्वा एवम् अवादीत् एवमेतत् भदन्त । तथैतत् मदन्त । यावत् तत् यथैतत् यूयं वदथ इति कृत्वा यत् नवरं देवानुप्रियाः ! अभीतिकुमारं राज्ये स्थापयामि, ततः खलु यह देवानुप्रियाणाम् - अन्तिके मुण्डो भूत्वा यावत् प्रव्रजामि । यथासुखं देवानामियाः मा प्रतिबन्धं कुरुत, ततः खलु स उदायनो राजा श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्टतुष्टः श्रमणं भगवन्तं सहावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्रा तमेव अभिषेकं हस्तिनम् आरोहति आरुह्य श्रमय भगवतो महावीरस्य अन्तिकात् मृगवनात् - उद्या नातू प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य, यत्र वीतिभयं नगरं तत्रैव प्राधारयत् गमनाय । ततः खलु तस्य उदायनस्य राज्ञः श्रयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत - एवं खलु अभीतिकुमारो मम एकः पुत्रः इष्टः कान्तो यावत् किमङ्गपुनर्दर्शनेन ? तत् यदा खलु अहम् अभीतिकुमारं राज्ये स्थापयित्वा श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डोभूत्वा यावत् पव्रजामि तदा खलु अभोतिकुम्रो राज्ये 12 શ્રી ભગવતી સૂત્ર : ૧૧
SR No.006325
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 11 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages906
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy