SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १२ उ० १ २० २ शङ्खश्रावकचरितनिरूपणम् ६६५ पोसहसालाए जाव विहरित्तए, तं सुट्ठ णं तुमं देवाणुप्पिया! अम्हं होलसि। अजो त्ति समणं भगवं महावीरे ते समणोवासए एवं वयासी-माणं! अज्जो ! तुब्भं संखं समणोवासगंहीलह, निंदह, खिंसह, गरहह, अवमन्नह, संखे णं समणोवासए पियधम्मे चेव दढ धम्मे चेव,सुदक्खुजागरियं जागरिए॥सू०२॥ छाया-ततः खलु स शङ्ख श्रमणोपासकः तान् श्रमणोपासकान् एवम् अवादी-यूयं खलु देवानुप्रियाः! विपुलम् अशनम् , पानं, खादिम, स्वादिमम् उपसंस्कारयत, ततः खलु वयं तत्-विपुलम् अशनम् , पानं, खादिम, स्वादिमम् आस्वादयन्तः, विस्वादयन्तः परिभाजयन्तः परिभुञ्जानाः, पाक्षिकं पौषधम् पतिजाग्रतो विहरिष्यामः । ततः खलु ते श्रमणोपासकाः शङ्खस्य श्रमणोपासकस्य एतमर्थ विनयेन प्रतिशृण्वन्ति । ततः खलु तस्य शङ्कस्य श्रमणोपासकस्य अयमेतदूपः आध्यात्मिको यावत्- समुदपधत-नो खलु मम श्रेयः-तत् विपुलम् अशनं यावत् स्वादिमम् आस्वादयन्तः, विस्वादयन्त, परिभुञ्जानस्य, परिभाजयतः पक्षिक पौषधं प्रविजाग्रतो विहर्तुम् , श्रेयः खलु मम पौषधशालायां पौषधिकस्य ब्रह्मचारिणः उन्मुक्तमणिसुवर्णस्य व्यपगतमालावर्णकविलेपनस्य निक्षिप्तशस्त्रमुशलस्य एकस्य अद्वितीयस्य दर्भसंस्तारकोपमतस्य पाक्षिकं पौषधं पतिजामतो वितु मितिकृत्वा, एवं संप्रेक्षते, संप्रेक्ष्य यत्रैव श्रावस्ती नगरी, यत्रैव स्वकं गृहम् , यत्रैव उत्पला श्रमणोपासिका तत्रैव उपागच्छति, उपागत्य उत्पलां श्रमणोपासिकाम् आपृच्छति, आपृच्छच यत्रैव पौषधशाला तत्रैव उपागच्छति, उपागत्य पौषधशालाम् अनुपविशति, अनुपविश्य, पौषधशाला प्रमार्जयति, प्रमाज्य, उच्चारप्रस्रवणभूमि प्रतिलेखयति, प्रतिलेख्य दर्भसंस्तारक संस्तृणाति, संस्तृत्य दर्भसंस्ता. रकम् आरोहति, आरुह्य पौषधशालायां पौषधिको ब्रह्मचारी यावत् पाक्षिक पौषधं पतिजाग्रत् विहरति । ततः खलु ते श्रमणोपासकाः यत्रैव श्रावस्ती नगरी, यत्रैव स्वानि गृहाणि तत्रैव उपागच्छन्ति, उपागत्य विपुलम् अशन पान खादिम, स्यादिमम उपस्कारयन्ति, उपस्कार्य, अन्योन्यम् शब्दयन्ति, शब्दयित्वा एवम्अवादिषुः-एवं खल्लु देवानुपिया! अस्माभिः तत् विपुलम् अशनपानखादिमस्वादिमम् उपस्कारितम् , शङ्खश्च खलु श्रमणोपासकः नो शीघमागच्छति, तत् श्रेयः खलु देवानुप्रिया ! अस्माकं शङ्ख श्रमणोपासक शब्दयितुम् । ततः खलु स म.८४ શ્રી ભગવતી સૂત્ર : ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy