SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ૬૬ भगवतीसूत्रे yorot श्रमणोपासकः तान् श्रमणोपासकान् एवम् अत्रादीत् - आध्वं खलु यूयं देवानुप्रियाः ! सुनिवृत्ताः विश्वस्ताः, अह खलु शङ्ख श्रमणोपासकं शब्दयामि इति कृत्वा तेषां श्रमणोपासकानाम् अन्तिकात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य श्राण नगर्या मध्यमध्येन यत्रैव शङ्खस्य श्रमणोपासकस्य गृह ं तत्रैव उपागच्छति, उपागत्य शङ्खस्य श्रमणोपासकस्य गृहम् अनुप्रविष्टः, ततः खलु सा उत्पला श्रमणोपासका पुष्कलम् श्रमणोपासकम् आयान्तं पश्यति, दृष्ट्वा दृष्टतुष्टा आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय सप्ताष्टौ पदानि अनुगच्छति, अनुगम्य पुष्कलिं श्रमणोपासकं बंदते, नमस्यति, वन्दित्वा नमस्थित्वा आसनेन उपनिमन्त्रयति, उपनिमन्त्र एवम् अवादीत - संदिशन्तु खलु देवानुप्रियाः । किमागमनप्रयोजनम् ? । ततः खलु स पुष्कलिः श्रमणोपासकः, उत्पलां श्रमणोपासिकाम् एवम् अवादीदकुत्र खलु देवानुप्रिये ! शङ्खः श्रमणोपासकः ? ततः ख सा उत्पला श्रमणोपासिका पुष्कलिं श्रमणोपासकम् एवम् अवादीत्-एवं खलु देवानुप्रियाः । शङ्खः श्रमणोपासकः पौषधशालायां पौषधिको ब्रह्मवारी यावत्-विहरति, ततः खलु स पुष्कलिः श्रमणोपासको यत्रैव पौषधशाला, यत्रैव शङ्खः श्रमणोपासकस्तत्रैवोपागच्छति, उपागत्य गमनागमनाय प्रतिक्रामति, मतिक्रम्य शङ्ख श्रमणोपासक चन्दते, नमस्यति, बन्दित्वा नमस्यित्वा, एवमवादीत् एवं खलु देवानुमियाः । अस्माभिः तत् विपुलम् अशनं यावत् स्वादिमम् उपस्कारितम्, तद्गच्छामः खलु देवानुमियाः । तदुविपुलम् अशनं यावत्सादिमम् आस्वादयन्तः यावत्-पतिजाग्रतो विहरामः । ततः खलु स शङ्खः श्रमणोपासकः पुष्कलिं श्रमणोपासकम् एवम् अदादीत्-नो खलु कल्पते देवानुभियाः ! तत् विपुलम् अशनं पानं खादिमं, स्वादिमम् आस्वादयतो यावत् प्रतिजाग्रतो विहर्तुम्, कल्पते मम पौषधशालायां पौवधिकस्य यावत् विहर्तुम् तत् छन्देन देवानुमियाः ! यूयं तत्विपुलम् अशनं पानं खादिमं स्वादिमम् आस्वादयन्तो यावत् विहरत, ततः स्खलु स पुष्कलिः श्रमणोपासकः शङ्खस्य श्रमणोपासकस्य अन्तिकात् पौषधशालायाः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य, श्रावस्ती नगरी मध्यमध्येन, यत्रेव वे श्रमणोपासकाः तत्रैव उपागच्छति, उपागत्य तान् श्रमणोपासकान् एवम् अवादीद एवं खलु देवानुप्रियाः । शङ्खः श्रमणोपासक, पौषधशालायां पौषधिको यावत् विहरति-तत् छन्देन देवानुप्रियाः । यूपं विपुलम् अशनपानखादिमस्वादिमं यावत् विहरत । शङ्खः खलु श्रमणोपासको नो हव्यमागच्छति । ततः खलु ते श्रमनोपासकाः तानि विपुलानि अशनपानखादिम स्वादिमानि आस्वादयन्तो यावत्विहरन्ति ततः खलु तस्य शङ्खस्य श्रमणोपासकस्य पूर्वरात्रापररात्रकालसमये ! 7 , શ્રી ભગવતી સૂત્ર : ૯ 9 9
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy