SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ " प्रमेयचन्द्रिका टीका श० ११ उ० ११ ० ६ सुदर्शनचरितमिरूपणम् अदूरसामन्ते नानामणिरत्नमण्डिताम् अधिकमेक्षणीयां महार्घत्ररपतनोद्गताम्, सूक्ष्म पट्टबहुभक्तिशत चित्रिताम्, ईहामृगवृषभ यावत् भक्तिचित्राम् अभ्यन्तरिकीम् यवनिकाम् आकर्षयति, आकृष्य नानामणिरत्नभक्तिचित्रम्, आस्तरणमृदु कमर वखखण्डावस्तृतम्, श्वेतवस्त्र प्रत्यवस्तृतम् अङ्गसुखस्पर्शम्, मृमृदुकं प्रभावत्यै देव्यै भद्रासनं रचयति, रचयित्वा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अत्रादीत् क्षिप्रमेव भो देवानुप्रियाः ! अष्टाङ्ग महानिमित्तसूत्रार्थधारकान् विविधशास्त्रकुशलान् स्वप्नलक्षणपाठकान् शब्दयत । ततः खलु ते कौटुम्बिकपुरुषाः, यावत् प्रतिश्रुत्य बलस्य राज्ञः अन्तिकात् प्रतिनिष्क्राम्यंति, प्रतिनिष्क्रम्य शीध त्वरितं चपलं, चण्डं वेगितं हस्तिनापुरं नगरं मध्यमध्येन यत्रैव तेषां स्वप्नलक्षणपाठकानां गृहाणि तत्रैव उपागच्छन्ति, उपागत्य तान् स्वप्नलक्षणपाठकान् शब्दयन्ति, ततः खलु ते स्वप्नलक्षणपाठकाः बलम्य राज्ञः कौटुम्बिकपुरुषैः शब्दयिताः सन्तः हृष्टतुष्टाः स्नाताः कृत यावत् शरीराः सिद्धार्थ कहरितालिकाकत मङ्गलमूर्द्धानः स्वेभ्यः स्वेभ्यो गृहेभ्यो निर्गच्छन्ति, निर्गत्य हस्तिनापुरं नगरं मध्यमध्येन यत्रैव बलस्य राज्ञो भवनवरावतंसकस्तत्रैव उपागच्छन्ति, उपागत्य भवननवरावतंसकप्रतिद्वारे एकतो मिलन्ति, मिलित्वा यत्रैव बाह्या उपस्थानशाला तत्रैव उपागच्छन्ति, उपागत्य करतळ यावत् बलं राजानं जयेन विजयेन वर्द्धयन्ति । ततः खलु स्वप्नलक्षणपाठकाः बलेन राज्ञा वन्दित रूजितसत्कारितसम्मानिता: सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति । ततः खलु स बलो राजा प्रभावती देवीं यवनिकान्तरे स्थापयति, स्थापयित्वा पुष्पफलप्रतिपूर्णहस्तः परेण विनयेन तान् स्वप्नलक्षणपाठकान् एवम्-अवादीत एवं खलु देवानुप्रियाः ! प्रभावती देवी अद्य तस्मिन् तादृशके वासगृहे यावत् सिंह स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा, तत् खलु देवानुमियाः ! एतस्य उदारस्य यावत् किं मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति । ततः खलु स्वप्नलक्षणपाठकाः बलस्य राज्ञः अन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टाः तं स्वप्नम् अवगृह्णन्ति, अत्रगृख ईहाम् अनुप्रविशन्ति, अनुपविश्य तस्य स्वप्नस्य अर्थावग्रहणं कुर्वन्ति कृस्वा अन्योन्येन सार्द्धं संचारयन्ति, संचार्य तस्य स्वप्नस्य लब्धार्थाः, गृहीतार्थाः पृष्टार्थी, विनffतार्थाः, अभिगतार्थाः बलस्य राज्ञः पुरतः सप्नशास्त्राणि उच्चारयन्तः उच्चारयन्तः एवम् अवादिषुः- एवं खलु देवानुप्रियाः ! अस्माकं स्वप्नशास्त्रे द्वाचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः, द्वासप्ततिः सर्वस्वप्नाः दृष्टाः, तत्र खलु देवानुप्रियाः ! तीर्थकर मातरो वा, चक्रवर्तिमातरो वा तीर्थकरे वा, चक्रवर्तिनि वा गर्भम् व्युत्क्राम्यति एतेषां त्रिंशतो महास्वप्नानाम् इमान चतुर्द्दशमहास्वप्नान् दृष्ट्वा खल શ્રી ભગવતી સૂત્ર : ૯ ५१५
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy