________________
भगवतीसो पतिबुध्यन्ते, तद्यथा-गन-वृषभ-सिंह-अभिषेक-दाम-शशि-दिनकर-ध्वज, कुम्भ, पद्मसरः-सागर-विमान-भवन-रत्नोचय-शिखिनश्च १४॥१॥
वासुदेवमातरो वा वासुदेवे गर्भ व्युत्क्राम्यति, एतेषां चतुर्दशानां महास्वप्नानाम् अन्यतरान् सप्त महास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते, बलदेवमातरो वा बलदेवे गर्भ व्युत्क्राम्यति, एतेषां चतुर्दशानां महास्वप्नानाम् अन्यतरान् चतुरी महास्वप्नान् दृष्टा खलु प्रतिबुध्यन्ते, माण्डलिकमातरो वा मप्ड लिके गर्भ व्युत्क्राम्यति, एतेषां खलु चतुर्दशानां महास्वप्नानाम् अन्यतरम् एकं महास्वप्नं दष्टा खलु पतिबुध्यन्ते, अनया च खलु देवानुपियाः! प्रभावत्या देव्या एको महास्वप्नो दृष्टः, तत् उदारः खलु देवानुपियाः! प्रभावत्या देव्या स्वप्नो दृष्टः, यावत् आरोग्यतुष्ट यावत् मङ्गलकारकः खलु देवानुपियाः! प्रभावत्या देव्या स्वप्नो दृष्टः, अर्थलामो देवानुप्रिय ! भोगलाभः, पुत्रलामः राज्यलाभो देवानुप्रिय ! एवं खलु देवानुपिय ! प्रभावती देवी नवानां मासानाम् , बहुप्रतिपूर्णानाम् , यावत् व्यतिक्रान्तानाम् युष्माकं कुलकेतुं यावत् प्रजनयिष्यति, सोऽपि च खल्लु दारकः उन्मुक्तबालभावो यावत् राज्यपतिः राजा भविष्यति, अनगारो वा भावितात्मा, तत् उदारः खलु देवानुप्रियाः प्रभावत्या देव्या स्वप्नो दृष्टो यावत्आरोग्यतुष्टि दीर्घायुष्यकल्याण यावत् दृष्टः, ततः खलु स बलो राजा स्वप्न लक्षणपाठकानाम् अन्तिकम् एतमयं श्रुत्वा निशम्य हृष्टतुष्टः करतल यावत् कृत्वा तान् स्वप्नलक्षणपाठकान् एवम् अवादीत्-एवमेतत् देवानुमियाः! यावत् तत् यथैव यूयं वदथ इति कृत्वा तं स्वप्नं सम्यक् प्रतीच्छति, तं स्वप्नं सम्यक् प्रतीष्य स्वप्नलक्षणपाठकान् विपुलेन अशनपानखादिमस्वादिमपुष्पवस्त्रगन्धमाल्यालकारेण सत्कारयति, सम्मानयति, सत्कार्य, संमान्य विपुलं जीविकाई प्रीतिदानं ददाति, विपुलं जीविकाई भीतिदानं दत्वा प्रतिविसर्जयति, प्रतिविसृज्य सिंहासनात् अभ्युत्तिष्ठति, सिंहासनात् अभ्युत्थाय यत्रैव प्रभावती देवी तत्रैव उपागच्छति तत्रैव उपागत्य प्रभावती देवीं ताभिः इष्टाभिः, कान्ताभिः, यावत् संलपन् संलपन एवम् अवादीत्-एवं खलु देवानुप्रिये ! स्वप्नशास्त्रे द्वाचत्वारिंशत् स्वप्नार, त्रिंशत् महास्वप्नाः द्वासप्ततिः सर्वस्वप्नाः दृष्टाः, तत्र खलु देवानुपिये ! तीर्थकरमातरो वा चक्रवर्तिमानरो वा तचैत्र यावत्- अन्यतरम् एकं महास्वनं दृष्ट्वा खलु प्रतिबुध्यन्ते, अयं च खलु त्वया देवानुप्रिये ! एको महास्वप्नो दृष्टः, तत् उदारः खलु त्वया देवि ! स्वप्नो दृष्टः, यावत् राज्यपतिः राजा भविष्यति, अनगारो वा भावितात्मा, तत् उदारः खलु त्वया देवि! स्वप्नो इष्टः, यावत् दृष्टः इतिकृत्वा प्रभावती देवीं तामिः इष्टाभिः, कान्ताभिः, यावत् द्वितीयमपि, तृतीयमपि
શ્રી ભગવતી સૂત્ર : ૯