SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०११ उ०९ सू०३ शिवराजर्षिचरितनिरूपणम् ३४९ छाया-ततः खलु तस्य शिवस्य राजर्षे षष्ठषष्ठेन अनिक्षिप्तेन दिशाचक्रवालेन यावत् आतापयतः प्रकृतिभद्रतया यावत् विनीततया अन्यदा कदाचित तदावरणीयानां कर्मणां क्षयोपशमेन ईहापोह-मार्गणगवेषणं कुर्वतो विभङ्गो नाम अज्ञानं समुत्पन्नम् । स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन पश्यति-अस्मिन् लोके सप्तद्वीपाः सप्तसमुद्राः, तेन परं न जानाति, न पश्यति । ततः खलु तस्य शिवस्य राजर्षेः अयमेतद्रूपः आध्यात्मिको यावत् समुदपयत-अस्ति खलु मम अतिशयं ज्ञानदर्शनं समुत्पन्नम् , एवं खलु अस्मिन् लोके सप्तद्वीपाः सप्तसमुद्राः, तेन परं व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, एवं संप्रेक्षते, संप्रेक्ष्य आतापनभूमितः प्रत्यवरोहति, प्रत्यवरुध वाल्कलवस्त्रनिवसितो यत्रैव स्वकः उटजस्तत्रैव उपागच्छति, उपागत्य सुबहु लोहीलोहकटाहकडुच्छुकं यावत् भाण्डकं किढिनसांकायिकंच गृह्णाति, गृहीत्वा यत्रैव हस्तिनापुर नगरं, यत्रैव तापसावसथः तत्रैवोपागच्छति, उपागत्य भाण्डनिक्षेपं करोति, कृत्वा हस्तिनापुरे नगरे शृङ्गाटकत्रिकयावत्पथेषु बहुजनस्य एवमाख्याति, यावत् एवं प्ररूपयति-अस्ति खलु देवानुपियाः! मम अतिशय ज्ञानदर्शनं समुत्पन्नम्-एवं खलु अस्मिन् लोके यावद् द्वीपाश्च, समुद्राश्च । ततः खलु तस्य शिवस्य राजर्षेः अन्ति के एतमर्थ श्रुत्वा निशम्य हस्तिनापुरे नगरे शृङ्गाटक त्रिक यावत्पथेषु बहुजनोऽन्योन्यस्य एवमाख्याति यावत् प्ररूपयति-एवं खलु देवानुप्रियाः ! शिवो राजर्षिः एघमाख्याति यात्मरूपयति-अस्ति खलु देवानुप्रियाः ! मम अतिशय ज्ञानदर्शनं यावत् तेन परं व्युच्छिन्नाः द्वीपाश्च, समुद्राश्च, तत् कथमेतदू मन्ये एवम् ?। तस्मिन् काले, तस्मिन् समये स्वामी समवस्तः, पर्षद् यावत्पतिगता, तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महाबीरस्य ज्येष्ठोऽन्तेवासी यथा द्वितीयशतके निर्ग्रन्थोद्देशके यावत् अटन् बहुजनशब्दं निशाम्यति, बहुजनोऽन्योन्यस्य एवम् आख्याति, एवं यावत् प्ररूपयति-एवं खलु देवानुपियाः ! शिवो राजर्पिः एवम् आख्याति यावत्मरूपयति-अस्ति खलु देवानुप्रियाः ! तदेव यावत् व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, तत्कथमेतत् मन्ये एवम् । ततः खलु भगवान् गौतमो बहुजनस्य अन्ति के एतमर्थ श्रुत्वा निशम्य यावत्-श्रद्धो यथा निर्ग्रन्थोद्देशके यावत् तेन परं व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, तत्कथमेतत भदन्त ! एवम् ? गौतम इति! श्रमणो भगवान् महावीरो भगवन्तं गौतमम् एवम् अवादीत्-यत् खलु गौतम ! स बहुजनः अन्यान्यस्य एवमाख्याति तदेव सर्व भणितव्यम् यावत् भाण्डनिक्षेपं करोति, कृत्वा, हस्तिनापुरे नगरे शृङ्गाटकत्रिक यावत्-व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, । ततः खलु तस्य शिवस्य राजर्षेः अन्तिके एतमर्थ श्रुत्वा, निशम्य तदेव सर्व भणितव्यम् यावत्-तेन परं न्युच्छिन्ना द्वीपाश्च, શ્રી ભગવતી સૂત્ર : ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy