SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५० भगवतीसूत्रे समुद्राच, तत् खलु मिथ्या, अहं पुनौतम ! एवमाख्यामि यावत् प्ररूपयामि एवं खलु जम्बूद्वीपारिका द्वीपाः, लवणादिकाः समुद्राः संस्थानतः एकविधविधानाः, विस्तारतः अनेकविधविधाना एवं यथा जीवाभिगमे यावत् स्वयम्भूरमण पर्यवसानाः अस्मिन् तिर्यगृलोके असंख्येयाःद्वीपसमुद्राः प्रज्ञप्ताः श्रमणायुष्मन्! अस्ति खलु भद. न्त ! जम्बूद्वीपे द्वीपे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि सरसान्यपि अरसान्यपि, सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यवद्धानि, अन्योन्यस्पृष्टानि यावन्-घटतया तिष्ठन्ति ? हन्त, अस्ति । अस्ति खलु भदन्त ! लवणसमुद्रे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगधान्यपि, सरसान्यपि, अरसान्यपि सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यबद्धानि, अन्योन्यस्पृष्टानि यावत् घटनया तिष्ठन्ति ? हन्त, अस्ति । अस्ति खल भदन्त ! धातकीखण्डे द्वीपे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, असान्यपि, सस्पर्शान्यपि, अस्पर्शान्यापि, एवमेव एवं यावत् स्वयंभूरमणसमुद्रः ? यावत् हन्त, अस्ति । ततः खलु सा महातिमहालया महापर्पन श्रमणस्य भगवतो महावीरस्य अन्ति के एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टाः श्रमणं भगवन्तं महावीर वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा यामेव दिशं प्रादुर्भुता तामेव दिशं प्रतिगता। ततः खलु हस्तिनापुरे नगरे शृङ्गाटकयावत् पथेषु बहुजनोऽन्योन्यस्य एकमाख्याति यावत् प्ररूपयति यत् खलु देवानुपियाः ! शिको राजर्षिः एवमाख्याति यावत् प्ररूपयनि-अस्ति खलु देवानुपियाः ! मम अतिशयं ज्ञानं यावत् समुद्राश्च, तत् नायमर्थः समर्थः, श्रमणो भगवान महावीरः एवमाख्याति यावत् मरूपयतिएवं खलु एतस्य शिवस्य राजर्षेः षष्ठषष्ठेन तदेव यावत्-भाण्डनिक्षेपं करोति, कृत्वा हस्तिनापुरे नगरे शृङ्गाटकयावत् समुद्राश्च । ततः खलु तस्य शिवस्य राजर्षेः अन्तिके एतमर्थ श्रुत्वा, निशम्य, यावत् समुद्राश्च, तत् खलु मिथ्या, श्रमणो भगवान महावीरः एवमाख्याति यावत् एवं मरूपयति-एवं खलु जम्बूद्वीपादिका द्वीपाः, लपणादिकाः समुद्राः तदेव यावत् असंख्येयाः द्वीपसमुद्राः प्रज्ञप्ताः श्रमणायुष्मन् !। ततः खलु स शिवो राजर्षिः बहुजनस्य अन्ति के एतमर्थ श्रुत्वा निशम्य शङ्कितः काङ् क्षेतो विचिकित्सितो भेदसमापन्नः कलुषसमापन्नो जातश्चापि अभ. वत ॥ ततः खलु तस्य शिवस्य राजर्षे शङ्कितस्य काक्षितस्य यावत् कलुषसमापन्नस्य तदविभङ्गज्ञानं क्षिप्रमेव परिपतितम् । ततः खलु तस्य शिवस्य राजः अयमेतद्रपः आध्यात्मिका यावत् समुदपद्यत-एवं खलु श्रमणो भगवान् महावीरः आदिकरः तीर्थकरो यावत् सर्वज्ञः सर्वदर्शी आकाशगतेन चक्रेण यावत् सहसाम्रबने उद्याने यथापालरूपं यावन् विहरति, तत् महाफलं खलु तथारूपाणाम् अर्हता શ્રી ભગવતી સૂત્ર: ૯
SR No.006323
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages760
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy