________________
प्रमेयचन्द्रिका टीका श०९उ०३६सू०५ जमालिवक्तव्यनिरूपणम्
॥ छाया-ततः क्लु स जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्टतुष्टः श्रमणं भगवन्तं महावीरं त्रिकृत्वो यावत् नमस्यित्वा तमेव चातुर्घण्टम् अश्वरथम् आरोहति, आरुह्य श्रमणस्य भगवतो महावीरस्य अ. न्तिकात् बहुशालकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य सकोरण्ट यावत् ध्रियमाणेन महता भटचट कर यावत् परिक्षिप्तो यत्रैव क्षत्रियकुण्डग्राम नगरं तत्रैव उपागच्छति, उपागम्य क्षत्रियकुण्डग्रामं नगरस्य मध्यमध्येन यत्रैव स्वकं गृहं यत्रैव बाह्या उपस्थानशाला तत्रैव उपागच्छति उपागत्य तुरगौ निगृह्णाति, निगृह्य रथं स्थापयति, स्थापयित्वा रथात् प्रत्यवरोहति, प्रत्यवरुह्य यशैव आभ्यन्तरिकी उपस्थानशाला यशैव मातापितरौ तौर उपागच्छति, उपागत्य मातापितरौ जयेन विजयेन वर्द्धयति, वयित्वा एवमवादी-एवं खलु हे अम्बतातौ ! मया श्रमणस्य भगवतो महावीरस्य अन्ति के धर्मः निशमितः सोऽ. पि च मे धर्मः इच्छितः प्रतीच्छितः, अभिरुचितः । ततः खलु तं जमालिं क्षत्रियकुमारम् मातापितरौ एवम् अवादिष्टाम्-धन्योऽसि खलु त्वं जात ! कृतार्थोऽप्तिखलु त्वं जात ! कृतपुण्योऽसि खलु त्वं जात ! कृतलक्षणोऽसि खलु त्वं जात ! यत् खलु त्वया श्रमणस्य भगवतो महावीरस्य अन्ति के धर्मो निशमितः, सोऽपि धर्मः इच्छिता प्रतीच्छितः, अभिरुचितः । ततः खलु स जमालिः क्षत्रियकुमारो माता पितरौ द्वितीयमपि एवमवादी-एवं खलु मया अम्बतातौ ! श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मों निशमितो यावत् अभिरुचितः, ततः खलु अहम् अम्बतातौ । संसारभयोद्विग्ना, भीतो जन्मजरामरणेभ्यः, तद् इच्छामि खलु अम्बततौ ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा, अगारात् अनगारितां प्रव्रजितुम् । ततः खलु सा जमाले क्षत्रियकुमारस्य माता ताम् अनिष्टाम् अान्ताम् अप्रियाम् , अमनोज्ञाम् , अमनोऽमाम् अश्रुतपूर्षाम् गिरं श्रुत्वा निशम्य स्वदागतरोमकूपपगलद् विलीनगात्राशोकभरमपिताङ्गाझी निस्तेजाः दीनविमनोवदना करतसमर्दितेव कमलमाला तत्क्षणावरुग्णदुर्बलशरीर लावण्यशून्यनिश्छाया गतश्रीका, प्रशिथिलभूषणपतत् क्षुण्णसंचूर्णितधवलवलयपभ्रष्टोत्तरीया, मूविशनष्टचेतोगुव: सुकुमारविकीर्णकेशहस्ता परशुनिकृत्तेव चम्पकलता, निवृत्तमदेव इन्द्रयष्टिः, विमुक्तसन्धिवन्धना, कुट्टिमतले ' धस इति सर्वाङ्गिः संनिपतिता । ततः खलु सा जमाले क्षत्रियकुमारस्य माता ससंभ्रमापवर्तितया त्वरितं काञ्चनभृङ्गारमुखविनिर्गतशीतलविमलजलधारया परिषिच्यमाननिर्वापितगात्रयष्टिः उत्क्षेपकतालवृन्तवीजनकजनितबातेन सपृषता अन्तःपुरपरिजनेन आश्वासिता सती रुदती, क्रन्दती शोचन्ती विलपन्ती, जमालि
श्रीभगवती. सूत्र: ८