SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०२ भगवतीने छाया-तस्य खलु ब्राह्मण कुण्डग्रामस्य नगरस्य पश्चिमे अत्र खलु क्षत्रियकुण्डग्रामं नाम नगरम् आसीत् , वर्णकः तत्रखलु क्षत्रियकुण्डग्रामे नगरे जमालि. नाम क्षत्रियकुमारः परिवप्तति आढयः, दीप्तः यावत् अपरिभूतः, उपरिप्रासादवरगतः स्फुटद्भिः, मृदङ्गमस्तकैः, द्वात्रिंशद्वद्धः नाटकैः नानाविधवर. तरुणीसंपवर्तितः उपनृत्यमानः उपनत्यमानः, उपगीयमानः उपगीयमानः उपलाल्यमानः उपलाल्यमानः, माड्-वर्षारात्र शरद्धेमन्त शिशिरवसन्तग्रीष्मपर्यन्तान् षडपि ऋतुन यथाविमवेन मानयन् मानयन् कालं गालयन् इष्टान् शब्दरपर्शरसरूपगन्धान् पञ्चविधान मानुष्यकान् कामभोगान् प्रत्यनुभवन् विहरति । तत: खलु क्षत्रियकुण्डग्रामे नगरे शृङ्गाटकत्रिकचतुष्कचत्वर यावत् बहुजन शब्द इतिवा यथा औपपातिके यावत् एवं प्रज्ञापयति, एवं प्ररूपयति एवं खलु देवानुः मियाः ! श्रमणो भगवान् महावीरः आदिकरो यावत् सर्वज्ञः सर्वदर्शी ब्राह्मणकुण्डग्रामस्य नगरस्य बहिः बहुशालकं चैत्य यथाप्रतिरूपं यावत् विहरति, तत् महाफलं देवानुमियाः तथारूपाणाम् अर्हतां भवतां यथा औपपातिके यावत् एकाभिमुखाः क्षत्रियकुण्डग्रामस्य नगरस्य मध्यं मध्येन निर्गच्छन्ति, निर्गत्य यत्रैव ब्राह्मगकुण्डग्राम नगरं यत्रैव बहुशालकं चैत्यम् एवं यथा औपपातिके यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततःखलु तस्य जमालेः क्षत्रियकुमा रस्य तं महान्तं जनशब्दं वा यावत्-जनसनिपातं वा शृण्वतो वा पश्यतो वा अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत-किं खलु अद्य क्षत्रियकुण्डग्रामे नगरे इन्द्रमहो वा, स्कन्दमहो वा, मुकुन्दमहो वा, नागमहो बा, यक्षमहो वा, भूतमहो वा, कूपमहो वा, तडागमहो वा, नदोमहो वा, हदमहो वा, पर्वतमहो वा, वृक्षमहो वा, चैत्यमही वा, स्तूपमहो वा, यत् खलु एते वहवः उग्राः, भोगा, राजन्याः, इक्ष्वाकरः ज्ञाताः, कौरवाः, क्षत्रियाः, क्षत्रियपुत्राः, भटाः भटपुत्राः, यथा औपपातिके यावत् सार्थवाहप्रभृतयः, स्नाताः, कृतबलिकर्माणो यथा औपपातिके यावत् निर्गच्छन्ति, एवं जमालिः संप्रेक्षते, एवं संप्रेक्ष्य कचुकिपुरुषं शब्दयति, कञ्चुकिपुरुषं शब्दयित्वा एवम् आदीत्-किं खलु देवानुपिय ? अद्य क्षत्रियकुण्डनामे नगरे इन्द्रमहो वा, यावत् निर्गच्छन्ति ? ततः खलु स कन्चुकिपुरुषो जमालिना क्षत्रिय कुमारेण एवमुकः सन् हृटतुष्टः श्रमणस्य भगवतो महावीरस्य आगमनगृहीतविनिश्चयः करतलयावत् कृत्वा जमालिं क्षत्रियकुमारं जयेन विजयेन वर्दापयति, वर्दापयित्वा एवम् अवादी-नो खलु देवानुपिय ! अद्य क्षत्रिय कुण्डग्रामे नगरे इन्द्रमहोवा, यावत् निर्गच्छन्ति, एवं खलु देवानुप्रिय ! अय श्रमणो भगवान महावीरो यावत् सर्वज्ञः सर्वदर्शी ब्राह्मणकुण्डग्रामस्य नगरस्य श्री. भगवती सूत्र : ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy