SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श०९४०३३०४ जमालिव कश्यनिरूपणम् ४०३ बहिः बहुसालकं चैत्यन् यथामतिरूपम् अवग्रहं यावत् विहरति, ततः खड् एते बहवः उग्राः भोगाः यावत् अप्येके वन्दनं वर्तयितुं यावत् निर्गच्छन्ति । ततः खलु सः जमालिः क्षत्रियकुमारः कञ्चुकिपुरुवस्य अन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टः कौटुम्बिक रुपान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! चातुर्धष्टम् अवस्थं युक्तमेव उपस्थापयन, उपस्थायमन एतामाप्तिम् प्रत्यर्पयत । ततः खलु ते कौटुम्बिकपुरुषाः जमालिना क्षत्रि यकुमारेण एवमुक्ताः सन्तो यावत् प्रत्यर्पयन्ति । ततः खलु जमालिः क्षत्रियकुमारो यत्रैव मज्जनगृहं तत्रैव उपागच्छति, उपागम्य स्नातः कृतबलिकर्मा यथा औपपातिके पर्ववर्णता पणितव्यः यावत् चन्दनक्लिन्नगात्र शरीरः सर्वालङ्कार विभूषितो मज्जनगृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला, यत्रैव चातुष्टोऽथपत्र आगच्छति, उपागम्य चातुर्घग्टम् अश्वरथम् आरोहृति आरुह्य सकोरण्टमाल्यदाम्ना छत्रेण त्रियमाणेन महाभटचटकरपहकर वृन्दपरिक्षिप्तः क्षत्रियकुण्डग्रामस्य नगरस्य मध्यमध्येन निर्गच्छति, निर्गम्य यत्रैव ब्राह्मणकुण्डग्रामं नगरं यत्रैव बहुशालकं चैत्यं तत्रैवोपागच्छति, उपागत्य तुरगं निगृह्णाति निगृह्य रथं स्थापयति, स्थापयित्वा रथीत् प्रत्यवरोहति, प्रत्यवरुह्य पुष्पताम्बूलायुधादिकम् उपानहौच विसृजति, विसृज्य एकशाटिकम् उत्तरासङ्गं करोति, कुत्वा अञ्जलिमुकुलितहस्तो यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागम्य श्रमण भगवन्तं महावीरं त्रिःकृतः आदक्षिण प्रदक्षिणं करोति, कृत्वा यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततः खलु श्रमणो भगवान् महावीरो जमालेः क्षत्रियकुमारस्य तस्यां च महातिमहत्याम् ऋषियावत् धर्मकथा यावत् पर्षत् प्रतिगता । ततः खलु स जमालिः क्षत्रियकुमारः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मश्रुला निशम्य हृष्टो यावत् उत्थया उत्तिष्ठति, उत्थया उत्थाय श्रमण भगवन्तं महावीरं त्रिःकृत्वो यावत् नमस्थित्वा एवमवादीत् श्रदधामि खलु सदन्त ! निर्ग्रन्थं प्रवचनम्, प्रत्येमि खलु भदन्त ! निर्ग्रन्थं प्रवचनम्, रोचयामि खलु भदन्त ! निर्ग्रन्थं प्रवचनम्, अभ्युत्तिष्ठामि खलु मदन्त ! निर्ग्रन्थं प्रवचनम्, एवमेतत् भदन्त । तथैव भदन्त ! अवितथमेतत् भदन्त ! असंदिग्धमेतत् भदन्त ! यावत् तत् यूयं वदथ, पत् नवरं देवानुभिया ! मातापित्तरौ आपृच्छामि ततः खलु अहं देवानुमियागाम् अन्तिके मुण्डो भूत्वा अगारात् अनगारितां प्रव्रजामि, यथासुखं देवानुमिय! मा प्रतिबन्धं कुरु || सू० ४ ॥ શ્રી ભગવતી સૂત્ર : ૮
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy