SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८८ भगवतीसूत्रे संजमइ । तएणं सा देवाणंदा अज्जा अज्जचंदणाए अज्जाए अंतियं सामाइयमाइयाइं एकारसअंगाई अहिज्जइ, सेसं तं चेव जाव सव्वदुक्खप्पहीणा ॥ सू० ३ ॥ ___छाया--ततः खलु श्रमणो भगवान् महावीरः ऋष पदत्ताय ब्राह्मणाय देवानन्दायै ब्राह्मण्य तस्यां च महातिमहत्याम् ऋषिपर्षदि यावत् पर्षत् प्रतिगता, ततः खलु स ऋषभदत्तो ब्राह्मगः श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हष्टतुष्टः उत्थया उत्तिष्ठते, उत्थया उत्थाय श्रमणं भगवन्तं महावीरं त्रिकृत्वो यावत् नमस्यित्वा एवमवादीत्-एवमेतत् भदन्त ! तदैतत् भदन्त ! यथा स्कन्दको यावत् स यथैतत् यूयं वदथ इति कृत्वा उत्तरपौरस्त्यं दिग्भागम् अपक्राम्यति. अपक्रम्य स्वयमेव आभरणमाल्यालङ्कारम् अत्रमुञ्चति, अवमुच्य स्वयमेव पञ्चसुष्टिकं लोचं करोति, कृत्वा यत्रैव श्रमणो भगवान् महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्या आदक्षिणप्रदक्षिणम् यावत् नमस्यित्वा एवमवादीत्-अदीप्तः खलु भदन्त ! लोकः, प्रदीप्तः खलु भदन्त ! लोकः आदीप्तपदीप्तः खलु भदन्त ! लोको जरया मरणेन च, एवम् एतेन क्रमेण यथास्कन्दकस्तथैव प्रबजितः, यावत् सामायिकादीनि एका. दश अङ्गानि अधीते यावत् बहुभिः चतुर्थषष्ठाष्टमदशम यावत् विचित्रैस्तपो. कर्मभिरात्मानं भावयन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, पालयित्वा मासिक्या संलेखनया आत्मानं जूषयति जूषयित्वा पष्टिं भक्तानि अनशनेन छिनत्ति, छित्वा यस्यार्थाय क्रियते नग्नभावो यावत् तमर्थमाराधयति, आराध्य यावत् सर्व दुःखपहीणः । ततः खलु सा देवानन्दा ब्राह्मणी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टा श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं यावत् नमस्यित्वा एवमवादीत्-एवमेतत् भदन्त ! तथैतत् भदन्त ! एवं यथा ऋषभदत्तस्तथैव यावत् धर्ममाख्याति, ततःखलु श्रमणो भगवान महावीरो देवानन्दां ब्राह्मणी स्वयमेव प्रवानयति, प्रव्राज्य स्वयमेव आर्य चन्दनायै आर्यायै शिष्यात्वेन ददाति । ततःखलु सा आर्यचन्दना आर्या देवानन्दां ब्राह्मणी स्वयमेव प्रव्राजयति, स्वयमेव मुण्डयति, स्वयमेव शिक्षयति, एवं यथैव ऋषभदत्तस्तथैव आर्यचन्दनाया आर्यायाः इमम् एतद्रूपं धार्मिकम् उपदेशं सर्व संमतिपद्यते, तदाज्ञया तथागच्छति, यावत् संयमेन संयच्छति । ततः खलु सा देवानन्दा आर्या आर्यचन्दनाया आर्यायाः अन्तिके सामायिकादीनि एकादश अङ्गानि अधीते, शेषं तदेव यावत् सर्वदुःखपहीणा ।।मू० ३॥ श्री. भगवती सूत्र: ८
SR No.006322
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages685
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy