________________
७००
समवायाङ्गसूत्रे
यद् गृहात्तमं-वरपासादस्तस्य तथोक्तस्य सिद्धिसुगतिरूपश्रेष्ठपासादस्य 'सोपाणाचेव' सोपानानीव-आरोहणानीव तौ । पुनः कीदृशौ तौ ? 'णिक्खोमणिकंपा' निक्षोभौ-वादिना कथंचिदपि क्षोभयितुमशक्यौ च तौ निष्पकम्पौ-सर्वथाअ व्यभिचरितत्वादीषदपि चालयितुमशक्यौ च-निक्षोभनिष्पकम्पौ। एतत्सकलविशेषणविशिष्टावस्याङ्गस्य सूत्राथौँ विद्यते। तथा 'सूयगडस्स गं' सूत्रकृतस्य खलु परित्ता' परीताः-संख्याताः 'वायणा' वाचनाः, 'संखेज्जा' संख्येयानि 'अणुओगदारा' अनुयोगद्वाराणि, 'संखेजाओ' संख्येयाः 'पडिवत्तीओ' प्रतिपत्तयः, 'संखेज्जा' संख्येयाः 'वेढा' वेष्टकाः, 'संखेजा' संख्येयाः 'सिलोगा' श्लोकाः, 'संखेज्जाओ' संख्येयाः 'निजत्तीओ' नियुक्तयः । एतानि पदानि अत्रैव आचाराङ्गनिरूपणावसरे व्याख्यातानि । 'से थे' तत्खलु 'अंगठ्ठयाए' अङ्गार्थतया-अङ्गस्वरूपवस्तुतया 'दोच्चे अंगे द्वितीयम्--अङ्गम्, अत्र 'दो सुयक्खंधा' द्वौ श्रुतस्कन्धौ, 'तेवीसं अज्झयणा' त्रयोविंशतिरध्ययनानि, प्रथमश्रुतस्कन्धे षोडशाध्ययनानि, द्वितीये सप्ताध्ययनानि, इति सर्वसंकलनया त्रयोविंशतिरध्ययनानि, 'तेत्तीसे उदेसणकाला' त्रयस्त्रिंशदुदृशनकालाः, तदुक्तम्-- "चउतिय चउरो दो दो एकारस चेव हुंति एकसरा ।
सत्तेव महज्झयणा एगसरा बीयसुयखंधे॥१॥" छाया-चत्वारस्त्रयश्चत्वारो द्वौ द्वौ एकादश चैव भवन्ति एकसरकाः।
सप्तैव महाध्ययनानि एकसराणि द्वितीयश्रुतस्कन्धे ॥ इति। अयं भावः-प्रथमश्रुतस्कन्धस्य प्रथमेऽध्ययने चत्वार उद्देशनकाला:, द्वितीये त्रयः, तृतीये चत्वारः, चतुर्थ द्वौ, पश्चमे द्वौ, अवशिष्टेषु एकादशस्वध्ययनेषु प्रत्येकत्र एकैक उद्देशनकाल इति एकादशउद्देशनकालाः, तथा-द्वितीय श्रुतस्वन्धस्य सप्तस्वध्ययनेषु प्रत्येकत्र एकैक उद्देशनकाल इति सप्तोद्देशनकालाः, इति सर्वसंकलनया त्रयस्त्रिंशदुद्देशनकालाः। तेतीसं समुद्देसणकाला' त्रयस्त्रिंशत्समुद्देशनकालाः, तथा 'छत्तीसं पदसहस्साई' पत्रिंशत्पदसहस्त्राणि३६००० 'पयग्गेणं' पदाग्रेण-पदपरिमाणेन ‘पण ताई' प्रज्ञप्तानि । 'प्रज्ञप्तानि' इत्यस्य लिङ्गवचनविपरिणामेन सर्वत्रान्वयः कार्यः। तथा-अत्र 'संखेज्जा' संख्येयानि 'अक्खरा' अक्षराणि 'अणंतागमा' अनन्ता गमाः, 'अणंता पज्जवा' अनन्ताः-पर्यायाः, परित्तातसा' परीता असंख्यातास्त्रसा: 'अणंता थावराः' अनन्ताः स्थावराः सन्ति । उपरि निर्दिष्टाः सर्वे 'जिण पण्णत्ता भावा' जिनप्रज्ञप्ता भावाः सन्ति । कीदृशा एते? इत्याह ‘सासया' शाश्वताः 'कडा' कृताः ‘णिबद्धा' निबद्धाःपुनः ‘णिकाइया' निकाचिताः, अत्र 'आघविजंति' आख्यायन्ते, 'पणविज्जति' प्रज्ञाप्यन्ते 'प्ररूविज्जति' प्ररूप्यन्ते 'दंसिज्जति' दयन्ते 'निदंसिज्जति' निदयन्ते, 'उवदंसिज्जंति' उपदयन्ते । 'से' सा-य एतदङ्गमधीते स जनः ‘एवं आया'
શ્રી સમવાયાંગ સૂત્ર