________________
भावबोधिनी टीका. सूत्रकृताङ्गस्वरूपनिरूपणम् तदाह-'तिण्हं तेवट्ठीणं अण्णदिठियसयाणं' त्रयाणां त्रिषष्टयधिकानाम् अन्यहटिकशतानाम्, उपरिनिर्दिष्टानां सर्वेषां मीलने त्रिपष्टयधिकत्रिशतानि अन्यहष्टिकमतानि, तेषां 'बृहं' व्यूहम्-प्रतिक्षेपं 'किच्चा' कृत्वा सर्वाणि मतानि दूषयित्वा 'ससमयो' स्वसमयः-जैनसिद्धान्तः 'ठाविजई' स्थाप्यते । यस्मादनेन सूत्रकताड्रेन परमतनिराकरणपुरस्सरं स्वमतं स्थाप्यतेऽतस्तत्सूत्रार्थयोः स्वरूपमाह-- 'णाणादिद्वन्त' इत्यादि-'णाणदिटुंत' इत्यादीनि 'सुत्तत्था' इत्यस्य विशेषणानि । अस्य सूत्रकृतस्य ‘सुत्तत्था' सूत्रार्थो-सूत्रं च अर्थश्च तौ तथोक्तौ, कीदृशौ ? 'णाणदिटुंतवयण णिस्सारं सुट्ठदरिसयंता' नानादृष्टान्तवचननिस्सारं सुष्ठुदर्शयन्तौ'गाणा' नाना=अनेकविधैः-'दिटुंतवयण' दृष्टान्तवचनैः-स्याद्वादिना परमतनिराकरणाय स्वमतस्थापनाय च समुपन्यस्तैर्दष्टान्तवचनैरुपलक्षणत्वाद् हेतुवचनैः कृत्वा ‘णिस्सारं' निस्सारं-साररहितं परमतमिति 'मुटु' सुष्ठु-सम्यग्रीत्या 'दरिसयंता' दर्शयन्तौ-प्रकटयन्तौ नानाविधयुक्तिप्रदर्शनैः परमताग्राह्यत्व प्रदर्श नपूर्वकं स्वमतस्याखण्डनीयत्वं प्रकटयन्तौ तथा 'विविहवित्थराणुगमपरमसभा. वगुणविसिट्ठा' विविह' विविधः-सत्पदप्ररूपणाधनेकानुयोगद्वाराश्रितत्वेन अनेकविधः, स चासौ 'वित्थराणुगम' विस्तारानुगमश्च विज्ञेय जीवादितत्वानां विस्तारेण प्रतिपादनं च-विविधविस्तारानुगमः, तथा 'परमसब्भाव' परमस. द्भावः-अत्यन्तसत्यता वस्तूनामिदं परतेत्यर्थः, तावेव गुणौ, ताभ्यां विशिष्टौ, युक्तौ-विविध विस्तारानुगमपरमसद्भावगुणविशिष्टौ, अयं भाव:-विज्ञेयानां जीवादितत्वानां सुगमतया बोधो यथा भवेदितिहेतोर्विविधप्रकारेण यद् विस्तृतं प्रतिपादनं तत् तथा-'अयमिदं' इत्येचरीत्या निश्चयपूर्वकं यद् व्याख्यानं तत्, एतौ द्वावपिसूत्रार्थयोर्गुणौ। अत्र सूत्रकृताङ्गे एतद्गुणद्वयविशिष्टौ सूत्राथौं । पुनः कीदृशौ तौ ? 'मोक्खपहोयारगा' मोक्षपथावतारको-मोक्षपथे-सम्यग्दर्श नादिषु प्राणिनां प्रवर्तकौ, तथा 'उयारा' उदारौ-सूत्रार्थयोर्ये दोषास्तद्रहितौ तथा त्तयोर्ये गुणास्तत्सहितौ, पुनः 'अण्णाण तमंधयारदुग्गेसु' अज्ञानतमान्धकारदुर्गेषु= अतिशयेन-अज्ञानमज्ञानतमम्, तदेवान्धकारः, तद्वशाद्दुर्गेषु-दुर्गमनीयेषु तत्वमार्गेषु 'दीवभूया' : दीपभूत्तौ-प्रकाशकत्वात्मदीपसदृशौ, तथा-'सिद्धिसुगइगिहु. तमस्स' सिद्धिसुगतिगृहोत्तमस्य-सिद्धिः -सिद्धपदमाप्तिर्मोक्ष इति यावत, सैव सुगतिः, अथवा सिद्धिश्च सुगतिश्च सिद्धिसुगती-मुदेवत्वसुमानुषत्वमाप्ती, तद्रपं =३२ प्रकार का विनय है। इस विनय को मानने वाले वैनयिक हैं। अवशिष्ट पदों का भावार्थ सुगम है ॥सू० १७५॥ ચાર ચાર પ્રકારનો વિનય હોય છે. એ રીતે ૮-૪૩ ૩૨ પ્રકારને વિનય છે. તે વિનથને માનનારા વિનચિકે છે. બાકીનાં પદેને ભાવાર્થ સરળ છે. સૂ. ૧૭પા.
શ્રી સમવાયાંગ સૂત્ર