SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ ९९७ भावबोधिनी टीका. नारकादीनामवगाहनानिरूपणम् तदा भवति तस्य नैरयिकस्य मारणान्तिकसमुद्धातसमवहतस्य सातिरेकसहस्र. योजनप्रमाणा जघन्या तैजसशरीरावगाहना । 'उक्कोसेणं जाव अहे सत्तमापुढवी' उत्कर्षेण यावद्धः सप्तमापृथिवी, 'तिरियं जाव सयंभूरमणे समुद्दे' तिर्यग् यावत् स्वयम्भूरमणः समुद्रः, 'उडुं जाव' ऊर्ध्वं यावत् 'पंडगवणे पुक्खरणीओ' पण्डकवने पुष्करिण्यः, अयं भावः-अधः सप्तमपृथिव्या आरभ्य तिर्यग् यावत्स्वयंभूरमणसमुद्रपर्यन्तं ऊर्ध्वं यावत्पण्डकवने पुष्करिण्यश्च, तावत्प्रमाणा नैरयिकस्य तैजसशरीरावगाहना । इयमवगाहना तदा भवति, यदाऽधः सप्तमपृथिवीनारकः स्वयम्भूरमणसमुद्रपर्यन्तं पण्डकवनपुष्करिणीपर्यन्तं च मारणान्तिकसमुद्धातेन तैजसशरीरं समवहत्य मत्स्यतयोत्पद्यते । इति । तथा 'पंचिंदियतिरिक्खजोणियस्स णं भंते' पञ्चेन्द्रियतिर्यग्योनिकस्य खलु भदन्त ! 'मारणंतियसमुग्धारण समवयस्स' मारणान्तिकसमुद्धातेन समवहतस्य 'तेयासरीरस्स' तैजसशरीरस्य 'के महालिया' किं महती 'सरीरोगाहणा' शरीरावगाहना 'पण्णत्ता' प्रज्ञप्ता ? 'गोयमा ! जहा बेइंदियसरीरस्स' यथा द्वीन्द्रियशरीरस्य । हे गौतम ! यथा द्वीन्द्रियजीवस्य तैजसशरीरावगाहना उक्ता, तथैवाऽत्राऽपि विज्ञेया। 'मणुस्सस्स णं भंते' मनुष्यस्य खलु भदन्त ! 'मारणंतियस मुग्घाएणं समोहयस्स तेयासरीरस्स' मारणान्तिकसमुद्धातेन समवहतस्य तैजसशरीरस्य 'के महालिया' किं महती 'सरीरोगाहणा' शरीरवगाहना 'पण्णत्ता' प्रज्ञप्ता ? 'गोयमा!' हे गौतम ! 'समयखेत्ताओ' समयक्षेत्रात्-मनुष्यक्षेत्रात् 'लोगंतो' लोकान्तः । अयं भावः-समयक्षेत्रे वर्तमानो मनुष्यो यदा ऊर्ध्वलोकान्ते वा एकेन्द्रियेषु सूक्ष्मतया बादरतयावोत्पत्तुमिच्छति, तदा तस्य मारणान्तिक समुद्धातेन समवहतस्य ऊर्ध्वलोकान्तप्रमाणाऽधोलोकान्तप्रमाणा वा तैजसशरीरावगाहना भवति । 'असुरकुमारस्स णं भंते' असुरकुमारस्य खलु भदन्त ! 'मारणंतिपसमुग्घाएणं समोहयस्स तेयासरीरस्स' मारणान्तिकसमुद्धातेन समवहतस्य तैजसशरीरस्य 'के महालिया' किं महती 'सरीरोगाहणा' शरीरावगाहना 'पण्णत्ता' प्रज्ञप्ता ? 'गोयमा !' हे गौतम ! 'सरीरप्पमाणमित्ता' शरीरममाणमात्रा विखंभवाहल्लेणं' विष्कम्भबासनत्कुमार कल्प के देवों के तैजस शरीर की अवगाहना जब वे मारणांतिक-समुद्धात के वशवर्ती होते हैं कितनी बडी कही गई है ? उत्तरहे गौतम ! विष्कंभ और बाहल्य की अपेक्षा वह शरीरप्रमाण कही गई है। સનકુમાર કલ્પના દે ના તેજસશરીરની અવગાહના કેટલી મોટી હોય છે? ઉત્તર–હે ગૌતમ! વિન્કંભ અને બાહલ્યની અપેક્ષાએ તે અવગાહના શરીર શ્રી સમવાયાંગ સૂત્ર
SR No.006314
Book TitleAgam 04 Ang 04 Samvayang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1219
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy