SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०९ सू०३५ श्रेणिकस्य तीर्थ करत्वनिरूपणम् ३०५ चित् श्वेतशतलविमलसन्निकाशं चतुर्दन्तं हस्तिरत्नं समुत्पत्स्यते। ततः खलु स देवसेनो राना तं श्वेतं शङ्कतलविमलप्सनिकाशं चतुर्दन्तं हस्तिरत्नम् आरूढः सन् शतद्वारं नगरं मध्यमध्येन अभीक्ष्णमभीक्ष्णमतियास्यति च निर्यास्यति च । ततः खलु शतद्वारे नगरे बहयो राजेश्वरतलपर० यावत् अन्योन्य शन्दयिष्यन्ति, एवं वदिष्यन्ति-यस्मात् खलु देवानुभियाः । अस्माकं देवसेनस्य राज्ञः श्वेतं शतलविमलसन्निकाश चतुर्दन्तं हस्तिरत्नं समुत्पन्नं तद् भवतु खलु अस्माकं देवानुप्रियाः । देवसेनस्य राज्ञम्तृतीयमपि नामधेयं विमलवाहनः । ततः खलु तस्य देवसेनस्य राज्ञस्तृतीयमपि नामधेयं भविष्यति विमलवाहन ततः खलु स विमलवाहनो राजा त्रिशतं वर्षाणि अगारवासमध्ये उषित्वा मातापितृभ्यां देवत्वगताभ्यां गुरुमहतरैरभ्यनुज्ञातः सन् ऋतौ शरदि संबुद्धः अनुत्तरे मोक्षमार्ग, पुनरपि लोकान्तिकैः जितकल्पिकैः देवैः ताभिः इष्टाभिः कान्ताभिः प्रियाभिमनोज्ञाभिः मनोऽमाभिः उदाराभिः कल्याणाभिः धन्याभिः शिवाभिः मङ्गल्यामिः सश्रीकाभिः वागभिः अभिनन्धमानः अमिनन्धमानः अमि. ष्ट्रयमानः अभिष्ट्रयमानश्च बहिः सुभूभिमागे उद्याने एकं देवदूष्यमादाय मुण्डो भूत्वा आगारात् अनगारितां प्रव्रजिष्यति । तस्य खलु भगवतः सातिरेकाणि द्वादशवर्षाणि नित्यं व्युत्सृष्टकाये, त्यक्ते देहे-ये केऽपि उपसर्गा उत्पत्स्यन्ते, तद्यथा-दिव्या वा मानुषा वा तियग्योनिका वा, तानुत्पन्नान् सम्यक् सहिष्यते क्षमिष्यते तितिक्षिष्यते अध्यासिष्यते । ततः खलु स भगवान् ईर्यासमितो भाषासमितः यावत् गुप्तब्रह्मवारी अममोऽकिञ्चनश्छिन्नग्रन्थो निरुपलेपः यथा भावनायां कांस्यपात्रीय मुक्ततोयः यावत् सुहतहुताशन इव तेजसा ज्वलन् । "कांस्यं शो जीवः, गगनं वातश्च शारदं सलिलम् । पुष्करपत्रं कर्मः, विहगः खड्गी च भारण्डः ॥ १॥ कृजरः वृषभः सिंहः, नागराजश्चैव सागरोऽक्षोमः । चन्द्रः सूरः कनकं, बसुन्धरा चैव सुहुतहुतः " ॥२॥ नास्ति खलु तस्य भगवतः कुत्रापि प्रतिबन्धो भवति, स च प्रतिबन्धश्चतुविधः प्रज्ञप्तः, तद्यथा-अण्डज इति वा १, पोतज इति वा २, अवग्रहिकइति या ३, प्रग्रहिकइति या ४॥ यां यां दिशमिच्छति तां तां दिशमप्रतिवद्धः शूचिभूतो लघुभूतः अनात्मग्रन्थः संयमेन तपसाऽऽत्मानं भावयन् बिहरिष्यति । तस्य खलु भगवतः अनुत्तरेण ज्ञानेन अनुत्तरेण दर्शनेन अनुत्तरेण चारित्रेण एवम् आलयेन , विहारेण, आर्जवेन,मार्दवेन लाघवेन शान्त्या मुक्त्या गुक्त्या सत्यसंयमतपोगुणसुचरितसोपचितफलनिर्वाणमार्गेणाऽऽत्मानं भावयतो ध्यानांन्तरिकायां वर्तमानस्य स्था०-३९ શ્રી સ્થાનાંગ સૂત્ર : ૦૫
SR No.006313
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 05 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages737
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy