________________
३०४
स्थानाङ्गसूत्रे पंचमहव्वयाइं सभावणाई छच्च जीवनिकायधम्म देसेमाणे विहरिस्सइ ॥ सू० ३५॥
छाया-एष खलु आर्याः । श्रेणिको राजा भिम्भसारः कालमासे कालं कृत्वा अस्या रत्नप्रभायाः पृथिव्याः सीमन्तके नरके चतुरशीतिवर्ष सहस्रस्थितिकेषु नेरयिकेषु नैरयिकतया उत्पत्स्यते । स खलु तत्र नैरयिको भविष्यति काल: कालायभासः यावत् परमकृष्णो वर्णेन । स खलु तत्र वेदनां वेदयिष्यति-उज्ज्वला यावत् दुरधिसहाम् । स खलु तस्मानरकात् उदृत्य आगमिष्यन्त्यामुत्सर्पिप्याम् इहैव जम्बूद्वीपे द्वीपे भारते वर्षे वैताढयगिरिपादमूले पुण्ड्रेषु जनपदेषु शतद्वारे नगरे संमुचेः कुलकरस्य भद्राया भार्यायाः कुक्षौ पुस्तया प्रत्यायास्यति । ततः खलु सा भद्रा भार्या नवसु मासेषु बहुमतिपूर्णेषु अर्द्धाष्टिभेषु च रात्रिन्दिवेषु व्यतिक्रान्तेषु सुकुमारपाणिपादम् अदीनप्रतिपूर्णपश्चेन्द्रियशरीरं लक्षणव्यानगुणोपपेतं यावत् सुरूपं दारकं प्रजनयिष्यति । यस्यां रजनौ च खलु स दारकः प्रजनिष्यते तस्यां रजनौ च खलु शतद्वारे नगरे साभ्यन्तरबाखके भारायशश्च कुम्भारशश्च पद्मवर्षश्च रत्नवर्षश्च वर्षों वर्षिष्यति । ततः खलु तस्य दारकस्य मातापितरौ एकादशे दियसे व्यतिक्रान्ते यावत् द्वादशे दिवसे इदमेतद्रूपं गौणं गुणनिष्पन्न नामधेयं करिष्यतः-यस्मात् खलु अस्माकमस्मिन् दारके जाते सति शतद्वारे नगरे साभ्यन्तरबाह्य के भाराग्रशश्च कुम्भारशश्च पावर्षश्च रत्नवर्षश्च वर्षों पृष्टः, ततू भवतु खलु अस्माकमस्य दारकस्य नामधेयं महापद्मः । ततः खलु तस्य दारकस्य मातापितरौ नामधेयं करिष्यतः महापझेति । ततः खलु तं महापन दारकं मातापितरौ सातिरेकम् अष्टवर्षजातकं ज्ञात्वा महता राज्याभिषेकेण अभिपेक्ष्यतः । स खलु तत्र राजा भविष्यति, महाहिमहन्मलयमन्दरमहेन्द्रसारः राजवर्णकः यावत् राज्यं प्रसाधयन् विहरिष्यति । ततः खलु तस्य महापद्मस्य राज्ञः अन्यदा कदाचित् द्वौ देवौ महर्दि को महाद्युतिको महाबलौ महायशसौ महासौख्यौ सेनाकर्म करिष्यतः, तद्यथा-पूर्णभद्रश्च १, मणिभद्रश्च २॥ ततः खलु शतद्वारे नगरे बहयो राजेश्वरतलवरमाडम्बिककौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहप्रभृतयः अन्योन्यं शब्दयिष्यन्ति, एवं वदिष्यन्ति-यस्मात् खलु देवानुप्रियाः। अस्माकं महापद्मस्य राज्ञो द्वौ देवौ महद्धि को यावत् महासौख्यौ सेनाकमकुरुतः, तद्यथा-पूर्णभद्रश्च मणिभद्रश्च, तद् भवतु खलु अस्माकं देवानुप्रियाः महापद्मस्यराज्ञो द्वितीयमपि नामधेयं देवसेनः इति । ततः खलु तस्य महापद्मस्य द्वितीयमपि नामधेयं भविष्यति । देवसेन इति । ततः खलु तस्य देवसेनस्य राज्ञोऽन्यदा कदा
શ્રી સ્થાનાંગ સૂત્ર : ૦૫