SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०७ सू० १४ सप्तस्वरनिरूपणम् सप्त स्वराः कुतः सम्भवन्ति १ गेयस्य का भवन्ति योनयः १ । कति समया उच्चासाः १, कति वा गेयस्य आकाराः ? ॥१९॥ सप्तस्वरा नाभितो भवन्ति, गीतं च रुदितयोनिकम् । पादसमा उच्चासाः, त्रयश्च गीतस्य आकाराः॥२०॥ आदिमृदुम् आरममाणाः, समुद्वहन्तश्च मध्यकारे । अवसाने क्षपयन्तः, त्रयश्च गेयस्य आकाराः ॥ २१ ॥ षड् दोषान् अष्ट गुणान् , त्रीणि च वृत्तानि द्वे च भणिती । ज्ञास्पति स गास्यति, सुशिक्षितो रङ्गमध्ये ॥२२॥ भीतं द्रुतं इस्वं गायन , मा च गाय उत्तालम। काकस्वरमनुनासंच, भवन्ति गेयस्य षड् दोषाः ॥ २३ ॥ पूर्ण रक्तं च अलङ्कृतं च, व्यक्तं तथा अविघुष्टम् । मधुरं समं सुललितम् . अष्टगुणा भवन्ति गेयस्य ॥ २४ ॥ उरः कण्ठ शिस प्रशस्तं च, गीयते मृदुरिभितपदबद्धम् । समतालमत्युत्क्षेपं, सप्तस्वरसीभरं गीतम् ॥ २५ ॥ निर्दोषं सारवच, हेतुयुक्तमलङ्कृतम् । उपनीत सोपचारं च, मितं मधुरमेव च ॥ २६ ॥ सममर्द्धसमं चैव, सर्वत्रविषमं च यत् । त्रयो वृत्त प्रकाराश्चतुर्थ नोपलभ्यते ॥ २७॥ संस्कृताः प्राकृताश्चैव द्विविधा भणितय आख्याताः । स्वरमण्डले गीयन्ते, प्रशस्ता ऋषिभाषिताः ॥ २८ ॥ कीहशी गायति मधुरं ?, कीदृशी गायति खरं च रूक्षं च । कीशी गायति चतुरं?, कीदृशी विलम्ब ? द्रुतं कीदृशी ? ॥२९॥ विस्वरंपुनः कीदृशी ? ॥ श्यामा गायति मधुरं, काली गायति खरं च रूक्षं च । गौरी गायति चतुरं, काणा चिलग्बं द्रुत च अन्धाः ॥ ३० ॥ विस्वरं पुनः पिङ्गला ॥ तन्त्रीसमं तालसमं, पादसमं लयसमं ग्रहसमं च । निश्वसितोच्छ्वसितसमं, संचारसमं स्वराः सप्त ॥३१॥ सप्तस्वराथ त्रयो ग्रामा!, मृर्छना एकविंशतिः। तानाच एकोनपश्चाशत् , समाप्तं स्वरमण्डलम् ॥३२॥ इति स्वरमण्डलं समाप्तम् ॥ ० १४ ॥ स्था०-७७ શ્રી સ્થાનાંગ સૂત્ર : ૦૪
SR No.006312
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy